________________
પરિશિષ્ટ - ધર્મતીર્થનો મહિમા
२ उत्तराध्ययनसूत्र शांतिसूरिजी टीका + छद्मस्थावस्थायां व्यवहारनयाश्रयत्वात् सर्वप्रेष्ठा(चेष्टा?)नाम्, अन्यथा हि तीर्थोच्छेदप्रसङ्गः, तदुक्तम्"छउमत्थसमयचज्जा ववहारणयाणुसारिणी सव्वा । तं तह समायरंतो सुज्झइ सव्वोवि सुद्धमई(मणो)।।१।। जइ जिणमयं पवज्जह ता मा ववहारणिच्छए मुयह। ववहारणउच्छेए तित्थुच्छेओ जतोऽवस्सं।।२।।"
चतुरंगीय अध्ययन श्लोक १६९ टीका + यतः-कुत्सितानि च तानि तीर्थानि कुतीर्थानि च शाक्यौलूक्यादिप्ररूपितानि तानि विद्यन्ते येषामनुष्ठेयतया स्वीकृतत्वात्ते कुतीर्थिनस्तान्नितरां सेवते यः स कुतीर्थिनिषेवको जनो-लोकः, कुतीर्थिनो हि यश:सत्काराद्येषिणो यदेव प्राणिप्रियं विषयादि तदेवोपदिशन्ति, तत्तीर्थकृतामप्येवंविधत्वात्, उक्तं हि-"सत्कारयशोलाभार्थिभिश्च मूढेरिहान्यतीर्थकरैः । अवसादितं जगदिदं प्रियाण्यपथ्यान्युपदिशद्भिः।।१।।" इति सुकरैव तेषां सेवा,
द्रुमपत्रक अध्ययन श्लोक १९-२० टीका २ अध्यात्मबिन्दु - हर्षवर्धनउपाध्यायनिबद्धं + तदितरो व्यवहारः अभूतार्थम् असत्यार्थम् आवेदयन् नितरां संत्याज्यः । अयमर्थः व्यवहारो हि पर्यायाश्रितत्वात् परभावं परस्य विदधन्नीलः स्फटिक इतिवदौपाधिकभावं जीवे समारोप्य योगस्थानोपयोगस्थान-बन्धस्थान-गुणस्थानसंक्लेशस्थान-लेश्यास्थान-मार्गणास्थान-जीवस्थानादिभावभावितवैश्वरूप्यं जीवद्रव्यं व्यवस्थापयति, तादृशश्च कथं शुद्धबुद्धटङ्कोत्कीर्णस्वभावस्यात्मनः स्वरूपावगतौ बीजं स्यात्? अनादिप्रसिद्धाशुद्धतापुरस्कारेणैव वस्तुस्वरूपावेदनात्। अतो भेदज्ञान-रहस्यासमर्थकत्वेन तदन[]गतेत्येतदेवाह-'यतः स्वपरयोर्भेदे स बीजं न हि' इति । स्वश्चात्मा, परश्चौपाधिको योगस्थानादिरूपो भावस्तयोर्भदे विवेके स व्यवहारो न हि योगस्थानादिकर्मेरितमात्मानं प्रतिष्ठापयन्नुपदर्शितोपाधिकभावविशिष्टं तं चानुभाक्य विज्ञानस्वभावातिरिक्तस्वभावबोधकत्वेनाशुद्धद्रव्याऽऽदेशितया नात्मनो याथात्म्यावेदकः। ननु तर्हि सर्वथैतस्यानुपादेयता भविष्यतीति चेन्न तीर्थप्रवृत्त्यन्यथानुपपत्त्येतस्यावश्यं कक्षीकरणीयत्वादिति स्वयमेवाने भावयिष्यामः।
प्रथम बत्रीसी, श्लोक ५ टीका + वस्तु व्यवहरन्नव्युत्पन्नवयुत्पत्त्यङ्गं भवतीति। एतदेवाह-'अबुधजनविबोधार्थम्' इति। अबुधा यथावद् वस्तुस्वरूपानभिज्ञेया ये जना लोकास्तेषां विबोधार्थम् अस्य व्यवहारस्य उपदेशः प्रणयनम्। अयं हि अबुधानां म्लेच्छभाषेव म्लेच्छानां परमार्थाभिधायकत्वादपरमार्थोऽपि वस्तुस्वरूपावबोधार्थ दर्शितः। तथाहि-यथा म्लेच्छस्य 'स्वस्ति' इत्यभिहिते सति किमस्य वाच्यमित्यनवबोधे न कदाचिदपि पदार्थस्फूर्तिः स्यात् तथाऽबुधस्यापि 'आत्मा' इति उक्ते किमस्य वाच्यमित्यनवबोधे न काचिदपि पदार्थस्फूर्तिः स्यात्। यदा तु तद्भाषाविदा केनचित् स्वस्तिपदस्य कल्याणोऽरोगाद्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org