________________
પરિશિષ્ટ - ધર્મતીર્થનો મહિમા
પરિશિષ્ટ : ધર્મતીર્થનો મહિમા
शंखेश्वरपार्श्वनाथस्तोत्र-उपे. छन्द (स्तोत्रावली) + स्फुरन्ति सर्वे तव दर्शने नया:, पृथग् नयेषु प्रथते न तत् पुनः। कणा न राशौ किमु कुर्वते स्थिति, कणेषु राशिस्तु पृथग् न वर्तते।।८३।। स्वतः प्रवृत्तैर्जिन! दर्शनस्य ते, मतान्तरैश्चेत् क्रियते पराक्रिया। तदा स्फुलिङ्गैर्महतो हविर्भुजः, कथं न तेजः प्रसरत् पिधीयते? ।।८४।। स्फुरन्नयावर्तमभङ्गभङ्गतरङ्गमुद्यत्पदरत्नपूर्णम्। महानुयोगह्रदिनीनिपातं, भजामि ते शासनरत्नराशिम्।।८५ ।। तवोपदेशं समवाप्य यस्माद्, विलीनमोहाः सुखिनो भवामः । नित्यं तमोराहुसुदर्शनाय, नमोऽस्तु तस्मै तव दर्शनाय।।८६।। न नाम हिंसाकलुषत्वमुच्चैः, श्रुतं न चानाप्तविनिर्मितत्वम्। परिग्रहो नो नियमोज्झितानामतो न दोषस्तव दर्शनेऽस्ति ।।८७।। `महाजनो येन गतः स पन्था', इति प्रसिद्ध वचनं मुनीनाम्। महाजनत्वं च महाव्रतानामतस्तदिष्टं हि हितं मतं ते।।८८ ।। , तत्त्वार्थाधिगम सूत्र संबंधकारिका उ. यशोविजयजी टीका + एवं तीर्थमहिमाक्षिप्तबुद्धिराचार्यशक्तिमसंभावयन्नाचार्यदेशीयः प्रत्यवतिष्ठते(व्या.) महत इत्यादि । महतो भूयसः, अतिशयेन महाविषयस्य महार्थस्य, दुर्गमो ग्रन्थभाष्ययोः पारो निष्ठाऽस्य स तथा तस्य, तत्र विशिष्टानुपूर्वीकपदसन्ततिम्रन्थः, तस्य महत्त्वादध्ययनमात्रेणापि दुर्गमः पारः, तस्यैवार्थविवरणं भाष्यम्, तस्यापि नयवादानुगमत्वादशक्यलाभः पारः। अयं ह्यागमो महतापि पुरुषायुषेणाशक्यो व्यावर्णयितुम्, तदित्थमस्य जिनवचनमहोदधेः प्रत्यासं सङ्ग्रहं कर्तुं कः शक्तो न कोऽपीत्यभिप्रायः। किं तेऽहं धारयामीत्यत्रेव किमोऽत्रापलापे प्रयोगात्।।२३।।
श्लोक २३ टीका सिद्धांतविचार रहस्यगर्भित ३५० गाथा- स्तवन
आण जिनभाण ! तुझ एक हु शिर धरूं, अवरनी वाणि नवि काने सुणिए; __ सर्वदर्शन तणुं मूल तुझ शासनं, तेणे ते एक सुविवेक थुणिए. आज० ६
ढाल १७ मी २ दिक्पट चोराशी बोल + बाहुबलि केवलीनो जिनप्रदक्षिणा-विनय, तीर्थंकर, वार्षिक दान, कपिल केवलीनु नृत्य तित्थ प्रणाम प्रदक्षिणा, थानक वरषिक दान, परहित करनी पुण्य फल, कपिल नृत्यको तान. ४८ मल्लि अने नेमि ए बे जिन कुमार (कुंवारा), अने द्रोपदीनुं पंचभर्तृत्त्व दोहु कुमर जिनजी कहै, पंच कुमर कुन हेत? प्रिया पंचकी द्रौपदी, मानै नहिं कुलकेत. ४९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org