________________
૪૨
પરિશિષ્ટ - ધર્મતીર્થનો મહિમા
साधुनुं प्रतिगृह भमी भिक्षाग्रहण; स्वाश्रय वसतिमां लावीने जमवानु नहि. एकै घरि ऊभो जिमें, अठावीस गुन मूल, अंतराय कल्पित कहै, ते सबही निरमूल. ५० , ललितविस्तरा + तत्र येनेह जीवा जन्म-जरा-मरणसलिलं मिथ्यादर्शनाविरतिगम्भीरं महाभीषणकषायपातालं सुदुर्लध्यमोहावर्तरौद्रं विचित्रदुःखौघदुष्टश्वापदं राग-द्वेषपवनविक्षोभितं संयोग-वियोग-वीचीयुक्तं प्रबलमनोरथवेलाकुलं सुदीर्घसंसारसागरं तरन्ति तत्तीर्थमिति। , धर्मपरीक्षा टीका + “वयमेव सृष्टिस्थित्यादिकारिणः” इत्याधुत्सूत्रभाषिणोऽनवच्छिन्नमिथ्यात्वसन्तानपरमहेतोस्तीर्थोच्छेदाभिप्रायवतो बलभद्रजीवस्य
श्लोक ५ टीका + परं पञ्चेन्द्रियव्यापादनभयेन यदि सति सामर्थ्य प्रवचनाहितं न निवारयति, तर्हि संसारवृद्धिदुर्लभबोधिता चेत्यादि श्रीकालिकाचार्यकथादौ भणितम्। अहितनिवारणे च क्रियमाणे कदाचित्पञ्चेन्द्रियव्यापत्तौ प्रायश्चित्तप्रतिपत्त्याशयस्य शुद्धत्वाज्जिनाज्ञाऽऽराधक: सुलभबोधिश्चेत्यादिरूपेण वस्तुस्वरूपावबोधको जिनोपदेशो भवतीति तात्पर्यम्।
श्लोक ५५ टीका , आवश्यक नियुक्ति एवं भाष्य टीका
एवं तावदर्थवक्तुर्मङ्गलार्थं वन्दनमभिहितं, इदानीं सूत्रकर्तृप्रभृतीनामपि पूज्यत्वात् वन्दनमाह
व्याख्या- 'एकादश' इति संख्यावाचकः शब्दः, ‘अपिः' समुच्चये, अनुत्तरज्ञानदर्शनादिधर्मगणं धारयन्तीति गणधरास्तान्, प्रकर्षेण प्रधाना आदौ वा वाचका: प्रवाचकाः तान्, कस्य?- 'प्रवचनस्य' आगमस्येत्यर्थः, किं?-वंदामि, एवं तावन्मूलगणधरवन्दनं, तथा 'सर्वं' निरवशेष, गणधरा:-आचार्यास्तेषां वंश:-प्रवाहस्तं, तथा वाचका-उपाध्यायास्तेषां वंशस्तं, तथा 'प्रवचनं च' आगमंच, वन्द इति योग:। आह-इह वंशद्वयस्य प्रवचनस्य च कथं वन्द्यतेति, उच्यते, यथा अर्थवक्ता अर्हन् वन्द्यः, सूत्रवक्तारश्च गणधराः, एवं यैरिदमर्थसूत्ररूपं प्रवचनं आचार्योपाध्यायैरानीतं, तद्वंशोऽप्यानयनद्वारेणोपकारित्वात् वन्द्य एवेति, प्रवचनं तु साक्षाद्वृत्त्यैवोपकारित्वादेव वन्द्यमिति गाथार्थः ।।८२ ।।
श्लोक ८२ 2 उपमितिभवप्रपंचकथा + एवं स्थिते-एनं संसारविस्तारं, विलध्य कथमप्यदः। मानुष्यं प्राप्य दुष्प्रापं, राधावेधोपमं जनः ।।८।। यो जैनमपि संप्राप्य, शासनं कर्मनाशनम्। हिंसाक्रोधादिपापेषु, रज्यते मूढमानसः।।९।। स हारयति काचेन,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org