________________
પરિશિષ્ટ - ભાવતીર્થ - દ્વાદશાંગી
सूत्रा-ऽर्थयोरुभयमपि प्रवचनमुच्यते । त्रिकं चैतत् सूत्रा -ऽर्थ-प्रवचनलक्षणं विष्वक् पृथग् बहुपर्यायं बह्वेकार्थिकम्, तथा च वक्ष्यति 'सुयधम्म तित्थ मग्गो' इत्यादि । । १३७४ । ।१३७५ ।।
श्लोक १३७४ - १३७५ टीका . सूत्रं, तन्त्रं, ग्रन्थः, पाठः, शास्त्रं च इत्येतानि सूत्रैकार्थिकानि ।। श्लोक १३७८ टीका
+
अथार्थैकार्थिकानि वक्तव्यानि, तत्राऽर्थः, व्याख्यानम्, अनुयोग इत्यनर्थान्तरम्, इत्यनुयोगैकार्थिकान्याहअनुयोगः, नियोगः, भाषा, विभाषा, वार्तिकम्, इति पञ्चानुयोगैकार्थिकानि ।। इति निर्युक्तिगाथासंक्षेपार्थः । । १३८५ ।। श्लोक १३८५ टीका
२७८
परिशिष्ट पर्व
ने
इतश्च तस्मिन्दुष्काले कराले कालरात्रिवत् । निर्वाहार्थं साधुसङ्घस्तीरं नीरनिधेर्ययौ । । ५५ ।। अगुण्यमानं तु तदा साधूनां विस्मृतं श्रुतम् । अनभ्यसनतो नश्यत्यधीतं धीमतामपि । । ५६ ।। सङ्घोऽथ पाटलीपुत्रे दुष्कालान्तेऽखिलो मिलत् । यदङ्गाध्ययनोद्देशाद्यासीद्यस्य तदाददे । । ५७ ।। ततश्चैकादशाङ्गानि श्रीसङ्घोऽमेलयत्तदा । दृष्टिवादनिमित्तं च तस्थौ किंचिद्विचिन्तयन् ।। ५८ । । नेपालदेशमार्गस्थं भद्रबाहुं च पूर्विणम् । ज्ञात्वा सङ्घः समाह्वातुं ततः प्रैषीन्मुनिद्वयम् ।। ५९ ।। गत्वा नत्वा मुनी तौ तमित्यूचाते कृताञ्जली । समादिशति वः सङ्घस्तत्रागमनहेतवे ।। ६० ।। सोऽप्युवाच महाप्राणं ध्यानमारब्धमस्ति यत् । साध्यं द्वादशभिर्वर्षैर्नागमिष्याम्यहं ततः । । ६१ ।। महाप्राणे हि निष्पन्ने कार्ये कस्मिंश्चिदागते । सर्वपूर्वाणि गुण्यन्ते सूत्रार्थाभ्यां मुहूर्ततः ।। ६२ ।। तद्वचस्तौ मुनी गत्वा सङ्घस्याशंसतामथ । सङ्घोऽप्यपरमाहूयादिदेशेति मुनिद्वयम् ।। ६३ ।। गत्वा वाच्यः स आचार्यो यः श्रीसङ्घस्य शासनम्। न करोति भवेत्तस्य दण्डः कइति शंसनः । । ६४ । । सङ्घबाह्यः स कर्तव्य इति वक्ति यदा स तु । तर्हि तद्दण्डयोग्योऽसीत्याचार्यो वाच्य उच्चकैः।।६५ ।। ताभ्यां गत्वा तथैवोक्त आचार्योऽप्येवमूचिवान्। मैवं करोतु भगवान्सङ्घः किं तु करोत्वदः । । ६६ ।। मयि प्रसादं कुर्वाणः श्रीसङ्घः प्रहिणोत्विह । शिष्यान्मेधाविनस्तेभ्यः सप्त दास्यामि वाचनाः । । ६७ ।। तत्रैकां वाचनां दास्ये भिक्षाचर्यात आगतः । तिसृषु कालवेलासु तिस्रोऽन्या वाचनास्तथा । । ६८ ।। सायाह्नप्रतिक्रमणे जाते तिस्रोऽपराः पुनः । सेत्स्यत्येवं सङ्घकार्यं मत्कार्यस्याविबाधया । । ६९ ।। ताभ्यामेत्य तथाऽऽख्याते श्रीसंघोऽपि प्रसादभाक् । प्राहिणोत्स्थूलभद्रादिसाधुपञ्चशतीं ततः । । ७० ।। तान्सूरिर्वाचयामास तेऽप्यल्पा वाचना इति । उद्भज्येयुर्निजं स्थानं स्थूलभद्रस्त्ववास्थित ।।७१।।
सर्ग नवमो
ततो दशमपूर्वस्य बहूनि विषमाणि च । अध्येतुं यमकान्यार्यरक्षितर्षिः प्रचक्रमे । । १०९ । । इतश्च सन्दिदिशतुः पितरावार्यरक्षितम्। नागच्छसि किमद्यापि विस्मृतास्तव किं वयम् ? । । ११० । । त्वं नः करिष्यस्युद्योतमिति ह्याशामकृष्महि । तवानागमने सर्वं पश्यामस्तु तमोमयम् ।। १११ ।। एवमाहूयमानोऽपि सन्देशवचनैस्तयोः । यावदध्ययनासक्तो ववले नार्यरक्षितः।।११२ ।। तावत्ताभ्यां तमाह्वातुमनोभ्यां फल्गुरक्षितः । प्राणप्रियोऽनुजस्तस्य प्रेषि निर्बन्धशिक्षया । ।११३ ।। (युग्मम्) द्रुतं गत्वा च नत्वा च सोऽवादीदार्यरक्षितम् । किमेवं कठिनोऽभूस्त्वमनुत्कण्ठः कुटुम्बके । ।११४ । । वैराग्यपर्शुना च्छिन्नं यद्यपि प्रेमबन्धनम्। तथापि तव कारुण्यमस्ति स्वस्तिनिबन्धनम् । ।११५ ।। शोकपङ्कनिमग्नोऽस्ति बन्धुवर्गश्च
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org