________________
પરિશિષ્ટ - ભાવતીર્થ - દ્વાદશાંગી
૨૭૯ साम्प्रतम्। तदागत्य तमुद्धर्तुं भगवंस्तव साम्प्रतम्।।११६ ।। इति तेनानुजेनोक्तो गन्तुं तत्रार्यरक्षितः। श्रीवज्रस्वामिनं नत्वा पप्रच्छ स्वच्छमानसः।।११७ ।। अधीष्वेति ततस्तेन प्रत्युक्तः स पुनः पठन्। किं तेऽस्मि विस्मृतः फल्गुरक्षितेनेत्यजल्प्यत।।११८ ।। बान्धवाश्च परिव्रज्यामनोरथरथस्थिताः। न कुत्रापि प्रवर्तन्ते त्वया सारथिना विना।।११९।। तदेहि देहि प्रव्रज्यां जगत्पूज्यां स्वगोत्रिणाम्। श्रेयस्यपि सकर्णोऽपि किमद्यापि प्रमाद्यसि? ।।१२०।। अथार्यरक्षितः स्माह यदि सत्यमिदं वचः। ततस्त्वं तावदादत्स्व वत्स! सत्त्वहितं व्रतम्।।१२१।। एवमुक्तस्ततस्तेन श्रद्धानि—तमानसः । सोऽवदद्देहि को हि स्यात्पीयूषस्य पराङ्मुखः ।।१२२ ।। अथार्यरक्षितः प्रीतस्तस्यामृतकिरा गिरा। स्वयं तमनुजग्राह दीक्षया शिक्षयाऽपि च ।।१२३।। यातुमुक्तोऽन्यदा फल्गुरक्षितेनार्यरक्षितः। अधीताशेषयमको गन्तुमूचे पुनर्गुरुम्।।१२४ ।। प्राग्वन्निवारितस्तेन स खेदादित्यचिन्तयत्। स्वजनाह्वानगुर्वाज्ञासङ्कटे पतितोऽस्मि हा।।१२५ ।। अधीयानः पुनः प्राग्वद्यमकेभ्यः पराजितः । कृताञ्जलिपुटो भूत्वा गुरूनत्वा च सोऽब्रवीत्।।१२६ ।। दशमस्यास्य पूर्वस्य मयाधीतं कियत्प्रभो? । अवशिष्टं कियच्चेति सप्रसादं समादिश।।१२७ ।। जगाद गुरुरप्येवं स्मितविच्छुरिताधरः। बिन्दुमात्रं त्वयाऽधीतमब्धितल्यं त शिष्यते।।१२८.।। इति श्रुत्वा गरोर्वाचमचिवानार्यरक्षितः। परिश्रान्तोऽहमध्येतं प्रभातः परं प्रभो! ।।१२९ ।। शेषमप्यचिरेणापि त्वमागमयसि श्रुतम्। धीमन्नधीष्व धीरोऽसि किमकाण्डे विषीदसि? ।।१३० ।। एवमाश्वासितस्तेन गुरुणा करुणावता। पुनः प्रवृत्तः सोऽध्येतुं भग्नोत्साहोऽपि भक्तिभाक् ।।१३१ । ।(युग्मम्) फल्गुरक्षितमन्येधुर्मूर्तिमबन्धुवाचिकम्। दर्शयन्नुत्सुको गन्तुं श्रीवजं स पुनर्जगौ।।१३२।। अयमुत्साह्यमानोऽपि हन्त गन्तुमनाः कथम्? । एवं विचिन्तयन्वज्रस्वाम्यभूदुपयोगभाक् ।।१३३ ।। सोऽथामस्तेत्यतो यातो नायमायास्यति ध्रुवम्। स्तोकं ममायुर्मय्येव पूर्वं च दशमं स्थितम्।।१३४ ।। अनुज्ञातस्ततस्तेन गमनायार्यरक्षितः। सफल्गुरक्षितः शीघ्रं पुरं दशपुरं ययौ।।१३५ ।।
सर्ग तेरमो विचाररत्नाकर + ननु मध्ये कियन्तं कालं यावत्साधवो नाभूवन् साध्याभासाश्च केचन स्वमतिकल्पितजिनालयजिनप्रतिमोपढौकित-धान्याद्युपजीबिनो-ऽभूवन्? वर्षसहस्रद्वयातिक्रमे च वयं जिनशासनोद्धाराय सुविहिता: साधवः समुद्भूताः, इत्यादि यज्जिनप्रतिमारिपव: प्रलपन्ति, तच्च तेषां भतग्रस्तगालीप्रदानप्रायम। यतः सिद्धान्ते एकविंशतिवर्षसहस्रं यावत, श्रीमद्वर्धमानस्वामिनस्तीर्थस्य साधुसाध्वीश्रावक-श्राविकारूपस्याव्यवच्छिन्नत्वेनोक्तत्वात्। तथा हि"एएसि णं भंते ! चउवीसाए तित्थगराणं कइ जिणंतरा पण्णत्ता? गोयमा ! तेवीसं जिणंतरा पण्णत्ता। एएसि णं भंते ! तेवीसाए जिणंतरेसु कस्स कहिं कालियसुअस्स वोच्छेदे पण्णत्ते? गोयमा! एएसुणं तेवीसाए जिणंतरेसु पुरिमपच्छिमएसु अट्ठसु अट्ठसु जिणंतरेसु एत्थ णं कालिअसुअस्स अव्वोच्छेदे पण्णत्ते, मज्झिमएसु सत्तसु जिणंतरेसु एत्थ णं कालियसुअस्स वोच्छेदे पण्णत्ते, सव्वत्थविणं वोच्छिन्ने दिट्ठिवादे। जंबूद्दीवेणं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवइयं कालं पुव्वगए अणुसज्जिस्सई? गोयमा ! जंबुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए ममं एगं वाससहस्सं पुव्वगए अणुसज्जिस्सइ। जहा णं भंते ! जंबूद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं एगं वाससहस्सं अणुसज्जिस्सइ, तहा णं भंते ! जंबूद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए अवसेसाणं तित्थगराणं केवइयं कालं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org