________________
२७७
પરિશિષ્ટ – ભાવતીર્થ - દ્વાદશાંગી 2 विशेषावश्यकभाष्य टीका + प्रोच्यन्तेऽनेन, अस्मात्, अस्मिन् वा जीवादयः पदार्था इति प्रवचनम्, अथवा प्रशब्दस्याऽव्ययत्वेनाऽनेकार्थद्योतकत्वात् प्रगतं जीवादिपदार्थव्यापकं, प्रधानं, प्रशस्तम, आदौ वा वचनं प्रवचनं द्वादशाङगं गणिपिटकम; आदित्वं चाऽस्य विवक्षित-तीर्थकरापेक्षया द्रष्टव्यम्, "नमस्तीर्थाय" इति वचनात् तीर्थकरेणाऽपि तन्नमस्करणादिति। अथवा जीवादितत्त्वं प्रवक्तीति प्रवचनमिति व्युत्पत्तेादशाङ्गम्, गणिपिटकोपयोगानन्यत्वाद् वा चतुर्विधश्रीश्रमणसङ्घोऽपि प्रवचनमुच्यते।
__ श्लोक - १ टीका + एकोऽर्थो येषां तान्येकार्थिकानि त्रीण्येव। कानि पुनस्तानि?, प्रवचनमुक्तार्थम्, वक्ष्यमाणार्थं च, सामान्येन श्रुतज्ञानम्। सूचनात् सूत्रं, तद्विशेष एव। अर्यत इत्यर्थः, अयमपि तद्विशेष एव। एषां च प्रवचन-सूत्रा-ऽर्थानां मध्य एकैकस्य प्रत्येकमेकाथिकानि पञ्च पञ्च नामानि भवन्ति।। इति नियुक्तिगाथार्थः।।१३६६ ।।
. श्लोक १३६६ टीका + ननु प्रवचनेन सह सूत्रा-ऽर्थयोरेकार्थता युक्ता, तद्विशेषत्वात्। तयोः सूत्रार्थयोः पुनः परस्परत एकार्थता न युज्यते, तयोरत्यन्तभेदात्; तथाहि-व्याख्येयं सूत्रम्, तद्व्याख्यानं चार्थ इति महान् भेदः। अथवा, त्रयाणामप्येषां प्रवचनसूत्रा-ऽर्थानां भिन्नार्थतैव युज्यते। 'नं च त्ति' न पुनः 'एकार्थता' इति शेषः, विभागाद् भिन्नविषयत्वात्। सामान्यविषयं हि प्रवचनम्, विशेषविषयौ च सूत्रार्थो, इति कथं तेषामेकार्थता? । न हि मृद्-घट-शरावादीनामेकार्थता युक्तिमती। इतरथायद्येकार्थान्येतानि त्रीण्यपि, तर्हि 'एक्केक्कस्स य एत्तो नामा एगट्ठिया पञ्च' इत्यनेन यान्येकैकस्य पञ्च पञ्चैकार्थिकान्यभिधास्यन्ते, तानि न युज्यन्त एव।न हीन्द्र-शक्र-पुरन्दरादिशब्दानामेकार्थानामपि पुनरपि प्रत्येकमेकार्थिकान्युपपद्यन्त इति ।।१३७०।।१३७१।। अत्र प्रतिविधानमाहयथेह मुकुलं, फुल्लमिति च, एतयोः संकोच-विकाशरूपतया भेदः, सामान्यार्थतया चाभेदः कमलमिति। न चैषां पुनः प्रत्येकमेकार्थिकानि न युज्यन्ते, किन्तु श्रूयन्त एव प्रत्येकं तदेकार्थिकानि, तद्यथा-आद्यस्य मुकुलं, कुड्मलं, कोरकं, जालकं, कलिका, वृन्तमित्यादि; द्वितीयस्य तु फुल्लं, विकोचं, (विकोशं)विकाशं, विकसितम्, उन्मीलितम्, उन्मिषितं, स्मितम्, उन्निद्रं, विजृम्भितं, हसितम्, उद्बुद्धं, व्याकोशमित्यादि। तृतीयस्य कमलं, पद्मम्, अरविन्दं, पङ्कजं, सरोजमित्यादि। तथेहाऽप्यविवृतार्थतो मुकुलकल्पं सूत्रमुच्यते, तदेव बोधकाले व्याख्यानकाले विवृतं सत् समुत्फुल्लकमलकल्पमर्थोऽभिधीयते। विशेषरूपतया च किञ्चिन्मात्रमनयोर्भेदः, सामान्यरूपतया त्वेकत्वं ज्ञेयं प्रवचनं श्रुतज्ञानमिति। न चैषां प्रवचन-सूत्रा-ऽर्थानामेकार्थिकानि न युज्यन्ते 'सुयधम्म तित्थ' इत्यादिनाऽनन्तरमेवाभिधास्यमानत्वादिति ।।१३७२।।१३७३।।
श्लोक १३७०-१३७१-१३७२-१३७३ टीका + एवं प्रस्तुतयोः सूत्रा-ऽर्थयोरपि विवक्षयैकार्थतादयो भावनीयाः, तथाहि-प्रवचनलक्षण एकस्मिन्नर्थे द्वयोरपि सूत्राऽर्थयोवृत्तत्वादेकार्थता; सूत्रस्य वाचकत्वात्, अर्थस्य तु वाच्यत्वाद् भिन्नार्थता। 'पवयणमुभयं च तयं ति' तच्च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org