________________
૨૭૬
પરિશિષ્ટ - ભાવતીર્થ - દ્વાદશાંગી धर्मपरीक्षा मूल + तित्थुच्छेओ व्व मओ सुत्तुच्छेओवि हंदि उम्मग्गो। संसारो अ अणंतो भयणिज्जो तत्थ भाववसा।।५।।
आवश्यकसूत्र नियुक्ति एवं भाष्य मूल
एगट्ठियाणि तिण्णि उ पवयण सुत्तं तहेव अत्थो अ। इक्किक्कस्स य इत्तो नामा एगट्ठिआ पंच।।१२९ । । सुय धम्म तित्थ मग्गो पावयणं पवयणं च एगट्ठा। सुत्तं तंतं गंथो पाढो सत्थं च एगट्ठा।।१३०।। अणुओगो य नियोगो भास विभासा य वत्तियं चेव। अणुओगस्स उ एए नामा एगट्ठिआ पंच।।१३१ ।। ३ आवश्यक नियुक्ति एवं भाष्य टीका + अर्हद्वचनत्वात् प्रवचनस्य, ... इह च प्रवचनं सामान्यश्रुतज्ञानं, सूत्रार्थों तु तद्विशेषाविति, आह-सूत्रार्थयोः प्रवचनेन सहैकार्थता युक्ता, तद्विशेषत्वात्, सूत्रार्थयोस्तु परस्परविभिन्नत्वात् न युज्यते, तथा च सूत्रं व्याख्येयं अर्थस्तु तद्व्याख्यानमिति, अथवा त्रयाणामप्येषां भिन्नार्थतैव युज्यते, प्रत्येकमेकार्थिकविभागसद्भावात्, अन्यथा एकार्थिकत्वे सति भेदेनैकार्थिकाभिधानमयुक्तमिति, अत्रोच्यते, यथा हि मुकुलविकसितयोः पद्मविशेषयोः संकोचविकासपर्यायभेदेऽपि कमलसामान्यतयाऽभेदः, एवं सूत्रार्थयोरपि प्रवचनापेक्षया परस्परतश्चेति, तथाहि-अविवृतं मुकुलतुल्यं सूत्रं, तदेव विवृतं प्रबोधितं विकचकल्पमर्थः, प्रवचनं चोभयमपीति, यथा चैषामेकाथिकविभाग उपलभ्यते-कमलमरविन्दं पङ्कजमित्यादि पौकार्थिकानि, तथा कुड्मलं वृन्दं संकुचितमित्यादि मुकुलैकार्थिकानि, तथा विकचं फुल्लं विबुद्धमित्यादि विकसितैकार्थिकानि, तथा प्रवचनसूत्रार्थानामपि पद्ममुकुलविकसितकल्पाना-मेकार्थिकविभागोऽविरुद्धः।... सामान्यविशेषरूपत्वात्प्रवचनस्य, सूत्रार्थयोरपि प्रवचनविशेषरूपत्वेन प्रवचनत्वोपपत्तेः।
श्लोक १२९ टीका , + ... सूचनात् सूत्रं, ... तन्यतेऽनेनास्मादस्मिन्निति वा अर्थ इति तन्त्रं, ...
श्लोक १३० टीका + प्रवचनं-श्रुतज्ञानं तदुपयोगानन्यत्वाद्वा सङ्घ इति ३।
श्लोक १७९-१८०-१८१ टीका द्वादशाङ्ग आचारादिभेदात् 'जिनाख्यातः' अर्हत्प्रणीतः स्वाध्याय: वाचनानिबन्धनत्वात् इह सूत्रमेव गृह्यते,
- श्लोक ९९७ टीका .... विजयतां कर्मपरप्रवादिविजयेनेति हृदयं, ....
श्लोक १५२३ टीका धर्मसंग्रह टीका + एवं चारित्राद्याचाराणां शुद्धिं विधाय सकलधर्मानुष्ठानस्य श्रुतहेतुकत्वात् तस्य समृद्ध्यर्थं 'सुअदेवयाए करेमि काउस्सग्गं अन्नत्थे' त्यादि च पठित्वा श्रुताधिष्ठातृदेवतायाः स्मर्तुः कर्मक्षयहेतुत्वेन श्रुतदेवताकायोत्सर्गं कुर्यात्। तत्र च नमस्कारं चिन्तयति। देवताधाराधनस्य स्वल्पयत्नसाध्यत्वेनाष्टोच्छ्वासमान एवायं कायोत्सर्ग इत्यादि हेतुः सम्भाव्यः।
श्लोक ६५ टीका
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org