________________
પરિશિષ્ટ - ભાવતીર્થ - દ્વાદશાંગી
૨૭૫ ३ दशवैकालिक नियुक्ति-टीका + दृष्टिवादश्च-श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनं,
तृतीय अध्ययन - श्लोक १९५ टीका 2 तत्त्वार्थाधिगम सूत्र-संबंधकारिका-टीका + (व्या.) ग्रन्थार्थेत्यादि। ग्रन्थेऽर्थे वचने च पटुशब्दः प्रत्येकं योजनीयः, सन्ति हि केचिद् यथाधीतग्रन्थपटवो नार्थपटवः, केचिच्चानधीतग्रन्था अप्यर्थपटवः। अन्येऽनधिगतग्रन्थार्था अपि स्वविकल्पितवचनपटवोऽतो विशेषयति त्रिष्वपि ये पटवः, एवंविधा अपि नोदासीनाः प्रयत्नवन्तो विजिगीषोद्यताः, अथ च निपुणा न्यायकुशलाः, एतादृशैरपि अन्यैर्वादिभिस्तीर्थान्तरीयैरनभिभवनीयम्, कैः किमिव, सर्वतेजोभिर्मणिप्रदीपादिभिर्भास्कर इव। यद्यप्युपमानपदस्योपमेयपदसमानविभक्तिकत्वाद्भास्करमित्यस्य प्रसङ्गः, तथाप्यार्षत्वादित्थं प्रयोगः, यद्वा यदेतादृशं तीर्थं तद्देशयामास इति यत्तद्भ्यां संस्कारो विधेयः।।२०।।
श्लोक २० टीका २ प्रशमरतिप्रकरणम् टीका + सर्वमेव सुखं सर्वसुखं दुःखलेशाकलङ्कितं मुक्तिसुखम् तस्य मूलमाद्यं प्रथमं बीजमर्हच्छासनम्। अथवा वैषयिकाणां सुखानां मुक्तिसुखस्य च सर्वेषां सुखानां मूलबीजं जिनशासनम्। सर्वे च तेऽर्थाश्च सर्वार्थाः पञ्चास्तिकायाः ससमयाः सर्वेषु सर्वार्थेषु यो निश्चयः परिच्छेदः एवं संसारस्थितिघटना मुक्तिमार्गश्चेति तं प्रकाशयति प्रतिपादयति जैनमेव शासनम्। सर्वे च ते गुणाश्च सर्वगुणाः। सर्वगुणानां सिद्धिनिष्पत्तिः सर्वगुणसिद्धिः। साध्यते येन धनेन तच्च धनमिदमेव प्रवचनम्। अतः सर्वगुणसिद्धिसाधनधनमर्हच्छासनं द्रव्यपर्यायनयप्रपञ्चात्मकमन्यशासनन्यग्भावेन जयति।।३१३।।
श्लोक ३१३ टीका ० तत्त्वार्थभाष्य + गणधरानन्तर्यादिभिस्त्वत्यन्तविशुद्धागमैः परमप्रकृष्टवाङ्मतिबुद्धिशक्तिभिराचार्य: कालसंहननायुर्दोषादल्प- . शक्तीनां शिष्याणामनुग्रहाय यत् प्रोक्तं तदङ्गबाह्यमिति।
अध्याय १ सूत्र २० २ तत्त्वार्थवार्तिक + अङ्गप्रविष्टमाचारादिद्वादशमेदं बुद्ध्यतिशयर्द्धियुक्तगणधरानुस्मृतग्रन्थरचनम्।।१२।। भगवदर्हत्सर्वज्ञहिमवन्निर्गतवाग्गङ्गाऽर्थ-विमलसलिलप्रक्षालितान्तकरणैः बुद्ध्यतिशयद्धियुक्तैर्गणधरैरनुस्मृतग्रन्थरचनम् आचारादिद्वादशविधमङ्गप्रविष्टमित्युच्यते।
अध्याय १ सूत्र २०, पृ.७२ + आरातीयाचार्य-कृताङ्गार्थप्रत्यासन्नरूपमङ्गबाह्यम्।।१३।। यद् गणधरशिष्य-प्रशिष्यैरारातीयैरधिगतश्रुतार्थतत्त्वैः कालदोषादल्पमेधायुर्बलानां प्राणिनामनुग्रहार्थमुपनिबद्धं संक्षिप्ताङ्गार्थवचनविन्यासं तदङ्गबाह्यम्।
अध्याय १ सूत्र २०, पृ.७८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org