________________
૨૨૦
ભાવતીર્થ - દ્વાદશાંગી છે. 'શ્રીભગવતીજી સૂત્રના પ્રારંભમાં જ સુધર્માસ્વામીએ દ્વાદશાંગીને નમસ્કાર કર્યો; કેમ કે તેઓ જાણે છે કે આના પ્રભાવે અમે બધા છીએ, આના પ્રભાવે જ આખું જગત છે, આ જ વિશ્વનો આધાર છે, ત્રણ કાળમાં, ત્રણ લોકમાં સર્વજીવોને તારણહાર છે. તમને શ્રુતજ્ઞાનમાં ભક્તિ-બહુમાન કે રસ નથી; કેમ કે તમને શ્રુતજ્ઞાનની સાચી ઓળખાણ નથી. અરે ! કેવલજ્ઞાન પામવાનું મુખ્ય સાધન પણ શ્રુતજ્ઞાન જ છે. અપેક્ષાએ શ્રુતજ્ઞાન સર્વ સમ્યગુ જ્ઞાનોની આદ્ય ગંગોત્રી છે. તીર્થના સ્થાપક, તીર્થના નાયક, તીર્થના માલિક તીર્થકરો પણ દ્વાદશાંગીની આજ્ઞાનું ઉલ્લંઘન કરતા નથી. દ્વાદશાંગીનું બીજું
१ जिनवाण्यै नम इत्यादि तत्कल्पनापि परास्ता, वाणीनमस्कारस्य 'नमः श्रुतदेवतायै' इत्यनेनैव गतार्थत्वात्,
(प्रतिमाशतक श्लोक ३ टीका) २ महाराजपथो मुक्तेश्चतुर्वर्णविराजितम्। द्वादशाङ्गं पुनर्जनं वचनं पुरमुच्यते।।
(वैराग्यरति चोथो सर्ग, श्लोक १२९८, वैराग्यकल्पलता पांचमी स्तबक, श्लोक १३०६) 3 प्रोच्यन्तेऽनेन, अस्मात्, अस्मिन् वा जीवादयः पदार्था इति प्रवचनम्; अथवा प्रशब्दस्याऽव्ययत्वेनाऽनेकार्थद्योतकत्वात् प्रगतं जीवादिपदार्थव्यापकं, प्रधानं, प्रशस्तम्, आदौ वा वचनं प्रवचनं द्वादशाङ्गं गणिपिटकम्;
(विशेषावश्यकभाष्य श्लोक १ टीका) ★ प्रवचनं तीर्थमिति भवन्त्येकार्थिकाः, एवमादयोऽस्य शब्दा इति,
(पंचवस्तुक श्लोक ११३५ टीका) ★ प्रोच्यन्ते येन जीवादयस्तत्प्रवचनम्, तत्र भक्तिः सेवा तदनुध्यानपरता, संघभट्टारको वा प्रवचनं प्रवक्तीति।
(प्रशमरतिप्रकरणम् श्लोक १८१ टीका) ★ तथा प्रगतं अभिविधिना जीवादिषु पदार्थेषु वचनं प्रावचनं, (आवश्यक नियुक्ति एवं भाष्य श्लोक १३० टीका) ★ जमिह पगयं पसत्थं पहाणवयणं च पवयणं तं च। सामन्नं सुयनाणं विसेसओ सुत्तमत्थो य।।१३६७ ।।
(विशेषावश्यकभाष्य मूल) ★ अथ प्रावचनशब्दार्थमाह'पगयाइ त्ति' पूर्ववत् प्रगताद्यर्थोऽत्रापि प्रशब्दः, आङ् मर्यादायाम्, अभिविधौ च गृह्यते। प्रगतं, प्रशस्तं, प्रधानम्, आदौ वा जीवादिष्वभिविधि-मर्यादाभ्यां वचनं प्रावचनम्, शिवप्रापकं वा वचनं प्रावचनमुच्यते। प्रवचनशब्दार्थस्तु प्रागेव भणित इति। तदेवमुक्तः प्रवचनैकार्थिकविभागः ।।१३८२।।
(विशेषावश्यकभाष्य श्लोक १३८२ टीका) ★ .. अत्र चादौ पूर्वजीतकल्पगतास्तद्रूपा एव चतुर्विंशतिगाथा: सन्ति। तासां व्याख्याऽपि प्रायस्तद्रूपैव। तथाहि-सर्वाण्यपि शास्त्राणि मङ्गलाभिधेयप्रयोजनप्रतिपादनपुरःसराण्येव प्रणीयन्ते । विशेषतो निश्शेषकल्मषकरीषंकषो जीतकल्पस्ततस्तस्यादौ मङ्गला-दिप्रतिपादिकेयं गाथाकयपवयणप्पणामो वुच्छं पच्छित्तदाणसंखेवं। जीअव्ववहारगयं जीवस्स विसोहणं परमं ।।१।। व्याख्या-प्रकर्षण-परसमयापेक्षया यथावस्थितभूरिभेदप्रभेदैरुच्यन्ते जीवाजीवादयः पदार्था अनेनाऽस्मिन्निति वा प्रवचन-सामायिकादि बिन्दुसारपर्यन्तं मुख्यतः श्रुतज्ञानम् उपचारात् तत्रोपयुक्तश्चतुर्विधः सङ्घोऽपि। कृतः प्रवचनस्य प्रणामो येन स कृतप्रवचनप्रणामोऽहं वक्ष्ये प्रायश्चित्तदानसक्षेपम्।..
(यतिजितकल्प सूत्र श्लोक १ मूल-टीका)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org