________________
પરિશિષ્ટ - ધર્મતીર્થની વ્યાખ્યા
૧૫૫ पश्यता न किं दृष्टम्? । पश्यामीत्यभिलापे तन्त्रं खलु विषयताभेदः।।१२२ ।। इतरद्वयसम्पादकमिह सदनुष्ठानमेव चाऽऽदेयम्। गृही-यतिधर्मविभेदाद् द्विविधं सम्यक्त्वमूलं तत्।।१२३।।
सर्ग-१ 2 धर्मसंग्रह टीका + तत्र गृहमस्यास्तीति गृही, तद्धर्मश्च नित्यनैमित्तिकानुष्ठानरूपः, व्रतानि महाव्रतानि विद्यन्ते यस्मिन् स व्रती, तद्धर्मश्च चरणकरणरूपः।
श्लोक ४ टीका + भूषणपञ्चके-जिनशासनेऽर्हद्दर्शनविषये कुशलता नैपुण्यं १, प्रभावना प्रभावनमित्यर्थः। सा च प्रागष्टधाऽभिहिता, यत्पुनरिहोपादानं तदस्या: स्वपरोपकारित्वेन तीर्थकरनामकर्मनिबन्धनत्वेन च प्राधान्यख्यापनार्थम् २, तथा तीर्थं द्रव्यतो जिनदीक्षा-ज्ञाननिर्वाणस्थानं यदाह-"जम्मं दिक्खा नाणं, तित्थयराणं महाणुभावाणं। जत्थ य किर निव्वाणं, आगाढं दंसणं होइ।।१।।" त्ति। भावतस्तु ज्ञान-दर्शनचारित्राधारः, श्रमणसङ्घः, प्रथमगणधरो वा, यदाह-"तित्थं भंते! तित्थं तित्थयरे तित्थं? गोयमा! अरहा ताव नियमा तित्थयरे, तित्थं पुण चाउव्वण्णे समणसंघे पढमगणहरे वा" [भगवती सूत्रे शं.२० उ.८ / सू.६८२] इति। तस्य सेवनम् ३ ।
श्लोक २२ टीका २ नंदीसूत्र टीका + ५. निव्वुइपह0 रूपकम्। अस्य व्याख्या-निर्वृतिपथशासनकमिति, अत्र यद्यपि सम्यग्दर्शन-ज्ञान-चारित्राणि निर्वाणमार्गस्तथाप्यनेन दर्शन-चरणपरिग्रहः, यत आह-जयति सदा 'सर्वभावदेशनकं' सर्वभावप्ररूपकमित्यर्थः, अनेन तु ज्ञानपरिग्रहः। अथवा 'निर्वृतिपथशासनकम्' इत्यनेन सम्पूर्णनिर्वाणमार्गकथनमेवेति गृह्यते, 'जयति सदा सर्वभावदेशनकम्' इत्यनेन तु विधिप्रतिषेधद्वारेण 'न निर्वृतिमार्गव्यतिरेकेण किञ्चिदस्ति' इति ख्याप्यते । यत एवम्भूतमत एव'कुसमयमदनाशनकं कुसिद्धान्तावलेपनाशनकमित्यर्थः। 'जिनेन्द्रवरवीरशासनकं चरमतीर्थकरप्रवचनमिति हृदयम्। . अयं रूपकार्थः।।२२।।
श्लोक - २२ टीका , अष्टक प्रकरण टीका विवाहः परिणयनं तद्रूपो धर्मः समाचारो व्रतबन्धो वा 'विवाहधर्मः'
अष्टक - २८, श्लोक - ५ टीका 2 विशेषावश्यकभाष्य टीका
अथवा, प्राकृते 'तित्थं' इत्युक्ते 'त्रिस्थम्' इत्येतदपि लभ्यते, इत्येतदाहअथवा, यद् यस्माद् यथोक्तदाहोपशम-तृष्णाच्छेद-मलक्षालनरूपेषु, यदिवा, सम्यग्दर्शन-ज्ञान-चारित्रलक्षणेषु त्रिष्वर्थेषु स्थितं ततस्त्रिस्थं संघ एव; उभयं वा संघ-त्रिस्थितिलक्षणविशेषण-विशेष्यरूपंद्वयं त्रिस्थम्। इदमुक्तं भवति-किं त्रिस्थम्?
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org