________________
૧૫૪
પરિશિષ્ટ - ધર્મતીર્થની વ્યાખ્યા
तित्थं? गोयमा! अरिहा ताव नियमा तित्थयरे, तित्थं पुण चाउव्वण्णो समणसंघो, पढमगणहरो वा" । ... तरिता तु तद्विशेष एव साधुः, तथा सम्यग्दर्शनादित्रयं करणभावापन्नं तरणं, तरणीयो भवोदधिरिति।
श्लोक ८० टीका + व्याख्या-धर्मो द्विविधः-द्रव्यधर्मो भावधर्मश्च, 'दव्वे दव्वस्स दव्वमेवऽहव'त्ति द्रव्य इति द्वारपरामर्शः, द्रव्यस्येति, द्रव्यस्य धर्मो द्रव्यधर्मः, अनुपयुक्तस्य मूलगुणोत्तरगुणानुष्ठानमित्यर्थः, इहानुपयुक्तो द्रव्यमुच्यते, द्रव्यमेव वा धर्मो द्रव्यधर्मः धर्मास्तिकाय:, 'तित्ताइसहावो वत्ति तिक्तादिर्वा द्रव्यस्वभावो द्रव्यधर्म इति, 'गम्माइत्थी कुलिंगो वत्ति गम्यादिधर्मः 'स्त्री'ति स्त्रीविषयः, केषाञ्चिन्मातुलदुहिता गम्या केषाञ्चिदगम्येत्यादि, तथा 'कुलिङ्गो वा' कुतीर्थिकधर्मो वा द्रव्यधर्म इति गाथार्थः ।।१०६३।।
श्लोक १०६३ टीका
२ उपमिति भवप्रपंचकथा
धर्म एव विश्वासस्थानमेकरसमनुकूलं सकलकलाकलापकुशलं मित्रं, धर्म एव सुरकुमाराकारधारकश्चित्तानन्दातिरेकहेतुस्तनयः, धर्म एव शीलसौन्दर्यगुणलब्धजयपताकाकुलोन्नतिनिमित्तभूता दुहिता,
प्रस्ताव -१ + ततो धर्मसूरिराचक्षीत-"भद्र! मोहान्धाः खल्वेनं न पश्यन्ति, विवेकिनां पुनः प्रत्यक्ष एव धर्मः, तथाहिसामान्येन तावद्धर्मस्य त्रीण्येव रूपाणि द्रष्टव्यानि भवन्ति, तद्यथा-कारणं, स्वभावः, कार्यं च, तत्र सदनुष्ठानं धर्मस्य कारणं, तद् दृश्यत एव, स्वभावः पुनर्द्विविधः-साश्रवोऽनाश्रवश्च। तत्र साश्रवो जीवे शुभपरमाणूपचयरूपः, अनाश्रवस्तु पूर्वोपचितकर्मपरमाणुविलयमात्रलक्षणः। स एष द्विविधोऽपि धर्मस्वभावो योगिभिर्दृश्यते, अस्मादृशैरप्यनुमानेन दृश्यत एव। कार्यं पुनर्धर्मस्य यावन्तो जीवगताः सुन्दरविशेषाः तेऽपि प्रतिप्राणिप्रसिद्धतया परिस्फुटतरं दृश्यन्त एव, तदिदं कारणस्वभावकार्यरूपत्रयं पश्यता धर्मस्य किं न दृष्टं भवता? येनोच्यते न दृष्टो मया धर्म इति, यस्मादेतदेव त्रितयं [तृतीयं. मु.] धर्मध्वनिनाऽभिधीयते, केवलमेष विशेषो यदुत-सदनुष्ठानं कारणे कार्योपचाराद्धर्म इत्युच्यते, यथा तन्दुलान् वर्षति पर्जन्य इति, स्वभावस्तु यः साश्रवो निगदितः स पुण्यानुबन्धिपुण्यरूपो विज्ञेयः, य: पुनरनाश्रवः स निर्जरात्मको मन्तव्यः। स एष द्विविधोऽपि स्वभावो निरुपचरितः साक्षाद्धर्म एवाभिधीयते, ये त्वमी जीववर्तिनः समस्ता अपि सुन्दरविशेषाः ते कार्य कारणोपचाराद्धर्मशब्देन गीयन्ते, यथा ममेदं शरीरं पुराणं कर्मति"।
प्रस्ताव -१
, वैराग्यरति
त्रिविधो धर्मो हेतु-स्वभाव-कार्यप्रभेदतो गदितः। सदनुष्ठानं हेतुस्तत्रेदं दृश्यते व्यक्तम्।।११९ ।। द्विविधः पुनः स्वभावो निर्दिष्टा साश्रवस्तदितरश्च। आद्यः सत्पुण्यात्मा विनिर्जरात्मा द्वितीयस्तु ।।१२० ।। अस्मादृशाऽनुमेयो द्विविधोऽप्ययमेष योगिभिर्दृश्यः। कार्यं सुन्दरभावाः प्रत्यात्म स्फुटतरास्ते च।।१२१ ।। शास्त्रानुभवज्ञानात् त्रयमिदमिह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org