________________
પરિશિષ્ટ - ધર્મતીર્થની વ્યાખ્યા
૧૫૩
, धर्मसंग्रहणी मूल
णामं ठवणा दविए खेत्ते काले तहेव भावे य। एसो खलु धम्मस्सा णिक्खेवो छव्विहो होइ।।२७।।
धर्मसंग्रहणी टीका + जीवस्याजीवस्य वा यथोक्तधर्मशब्दान्वर्थविवर्जितस्य यस्य कस्यचिद् 'इह' जगति धर्म इति नाम क्रियते, स नाम्ना धर्मो नामधर्मो, यद्वा नामनामवतोरभेदोपचारनाम चासौ धर्मश्चेति व्युत्पत्तेर्नामधर्म इत्युच्यते। तत्रैव प्रकारान्तरमाह'तदक्खा वत्ति' तस्य-धर्मस्य आख्या वा-संज्ञा वा नामैव धर्मो नामधर्म इति व्युत्पत्त्या नामधर्मः।।२८ ।।
श्लोक २८ टीका + साम्प्रतं स्थापनाधर्ममाहछाया- (सद्भावासद्भावे प्रतीत्य लेप्याक्षचित्रादिषु। धर्मवतो या स्थापना स्थापनाधर्मः स विज्ञेयः) सद्भावम्-आकार-प्रतीत्य लेप्यचित्रादिषु, असद्भावम्-आकाराभावमाश्रित्याक्षवराटकादिषु,'धर्मवतः' साध्वादेर्या स्थापना क्रियते, स स्थापनाधर्मो विज्ञेयः, ननु धर्मवतः स्थाप्यमानत्वात्स स्थापनाधर्मवान् स्यान्न स्थापनाधर्मः, तत्कथमुक्तं स स्थापनाधर्मो वि-ज्ञेय इति?, नैष दोषः, धर्मधर्मवतोरभेदोपचारादिति।।२९।।
श्लोक २९ टीका + सचित्तस्य-मनुष्यादेरचित्तस्य वा-धर्मास्तिकायादेर्यः खलु स्वभाव:-चेतनावत्त्वादिलक्षणः, स किमित्याह'एसो उ दव्वधम्मो' "तुः" पुनरर्थे एष पुनर्द्रव्यधर्मो ज्ञातव्य इति शेषः। प्रकारान्तरमाह-"अणुवउत्तस्सऽहव सुयमाई" अथवेति द्रव्यधर्मस्य प्रकारान्तरतासूचने, श्रुतमिति श्रुतधर्मं आदिशब्दाच्चारित्रधर्मपरिग्रहः, अनुपयुक्तस्य श्रुतधर्मादिविषयोपयोगविकलस्य द्रव्यधर्मो विज्ञेयः, "अनुपयोगो द्रव्य"मितिवचनात्।।३० ।।
श्लोक ३० टीका २ योगशास्त्र टीका + तत्र तीर्थ चतुर्विधश्रमणसङ्घ उत्पन्ने सति ये सिद्धाः ते तीर्थसिद्धाः।१। अतीर्थे जिनान्तरे साधुव्यवच्छेदे सति जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिद्धाः अतीर्थसिद्धाः, मरुदेवीप्रभृतयो वा, तदा तीर्थस्याऽनुत्पन्नत्वात्।।
प्रकाश - ३ श्लोक १२३ टीका + भक्ष्या-ऽभक्ष्ये पेया-ऽपेये गम्या-ऽगम्ये समात्मनाम्। योगिनाम्ना प्रसिद्धानां कौलाचार्यान्तवासिनाम्।।३३।।
प्रकाश - ४ श्लोक १०२ टीका आवश्यकसूत्र नियुक्ति एवं भाष्य मूल नाम ठवणातित्थं दव्वत्तित्थं च भावतित्थं च। एक्केक्कंपि अ इत्तोऽणेगविहं होइ णायव्वं ।।१०६५।। आवश्यक नियुक्ति एवं भाष्य टीका भावतीर्थं तु नोआगमतः संघः, सम्यग्दर्शनादिपरिणामानन्यत्वात्, यत उक्तं - "तित्थं भंते! तित्थं? तित्थकरे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org