________________
૧૫૨
પરિશિષ્ટ - ધર્મતીર્થની વ્યાખ્યા
तस्य । न च वक्तव्यं ‘तर्हि अपौरुषेयं वचनमविरुद्धं भविष्यति', कुतः ? यतस्तस्यापौरुषेयत्वे स्वरूपलाभस्याप्यभावः, तथाहि-उक्तिर्वचनम्, पुरुषव्यापारानुगतं रूपमस्य, पुरुषक्रियायास्ताल्वोष्ठादिव्यापाररूपाया अभावे कथं वचनं भवितुमर्हति ?, किंच, एतदपौरुषेयं न क्वचिद् ध्वनदुपलभ्यते, उपलम्भेऽप्यदृष्टस्य पिशाचादेर्वक्तुराशङ्काऽनिवृत्तेः' मा न तेन तद् भाषितं स्यात्' । ततः कथं तस्मादपि मनस्विनां सुनिश्चिता प्रवृत्तिः प्रसूयत इति ? ( अध्याय - १ श्लोक ३ टीका)
S
प्रतिमाशतक टीका
ने
ननु पूजादानप्रवचनवात्सल्यादिकं सरागकृत्यम्, तपश्चारित्रादिकं तु वीतरागकृत्यमिति विविक्तविभागो दृश्यते । तत्राद्यं पुण्यमन्त्यं धर्मः स्याद् । अत एव धर्मपदार्थों द्विविधः, एकः संज्ञानयोगलक्षणः, अन्यः पुण्यलक्षणः इति शास्त्रवार्त्तासमुच्चये हरिभद्रसूरिभिरुक्तम्। ... 'पुण्यं कर्म' इति पुण्यं सरागकर्म, अन्यद् वीतरागकर्म शास्त्रेषु धर्माय उदितं=परिभाषितमिति शुद्धनयं-शुद्धनयार्थं ... इदं तु चिन्त्यते आत्मनो धर्मिणो द्रव्यस्य निर्देशे धर्मद्वारा धर्मत्वमन्यद्वारा चान्यत्वमिति सङ्करः कथं वारणीयः ? प्रशान्ताधिकारेऽपि नयद्वयनिर्देश एव युक्ते प्रशान्तवाहिताख्यस्य पर्यायस्यैव निवेशे तु प्रागुक्ताभेदः । धर्मः किं द्रव्यं पर्यायो वा ? इति जिज्ञासायामित्थमुच्यत इति चेत् ? लक्षणाधिकारे नेदमुपयोगि, तत्त्वचिन्ताधिकारेऽपि नयद्वयनिर्देश एव युक्तो नैकनयनिर्देशः न्यूनाख्यनिग्रहस्थानप्रसङ्गात् । यथोक्तं भगवा भद्रबाहुस्वामिना सामायिकमधिकृत्य किं द्वारे - "जीवो गुणपडिवन्नो णयस्य दव्वट्ठियस्स सामाइअं । सो चेव पज्जवणयट्ठिअस्स जीवस्स एसगुणोऽत्ति ।।” एतदर्थप्रपञ्चोऽस्मत्कृतानेकान्तव्यवस्थायाम्। एकनयेनैव धर्मलक्षणे चाभिधातव्ये आदौ व्यवहारनयेन तत्प्रणयनमुचितम्, निश्चयनयानां बालमध्यमौ प्रत्यपरिणामका - तिपरिणामकत्वेन दुष्टत्वात्। अतएव “मूढनइअं सुयं कालियं तु" इत्याद्युक्तम् । सर्वाशङ्कानिराकरणाय च नयद्वयेन तत्प्रणयनं न्याय्यं, यथा “प्रमादयोगात्प्राणव्यपरोपणं हिंसा' इति तत्वार्थशास्त्रे हिंसालक्षणमभिहितम् । इत्थं विचार्यमाणे च 'क्रियाहेतुः पुष्टिशुद्धिमच्चित्तं धर्म' इति हरिभद्रोक्तलक्षण मतिव्याप्त्यादिदोषाकलङ्कितं सर्वत्रानुगतं निरवद्यं सङ्गच्छते । अत्रार्थे 'धर्मश्चित्तप्रभव' इत्यादि षोडशकं तद्वृत्तिश्चास्मत्प्रणीता 'योगदीपिका' नाम्नी अनुसरणीया 'यावानुपाधिविगमस्तावान्धर्म' इति अप्युभयोपाधिविगमनेनोभयनयानुगतं सर्वत्र सङ्गम्यमानं रमणीयमेव 'सं वंता कोहं च मानं च मयं च लोभं च, एयं पासगस्स दंसणं' इत्यादि सूत्रमप्यत्र प्रमाणमेव । ... “धम्मकंखिए पुण्णकंखिए" इत्यादौ धर्मः श्रुतचारित्रलक्षणः, पुण्यं तत्फलभूतं शुभकर्मेति विवृण्वता वृत्तिकृता साधनफलेच्छाभेदेन भेदेऽपि श्रुतचारित्रभावान्यतरानुगतक्रियाणां धर्मत्वेनैव निश्चयाङ्ग-व्यवहारनयेनाभ्युपगतत्वात्,
...
Jain Education International
श्लोक ९५ टीका
योगदृष्टिसमुच्चय टीका
धर्मादपि भवन् भोगो-देवलोकादौ, प्रायो- बाहुल्येन, अनर्थाय देहिनां तथा प्रमादविधानात् । प्रायोग्रहणं शुद्धधर्माक्षेपिभोगनिरासार्थं, तस्य प्रमादजीवत्वायोगात्, अत्यन्तानवद्यतीर्थकरादिफलशुद्धेः पुण्यसिद्ध्यादावागमाभिनिवेशाद्धर्मसारचित्तोपपत्तेरिति ।
श्लोक १६० टीका
For Personal & Private Use Only
www.jainelibrary.org