________________
પરિશિષ્ટ - ધર્મતીર્થની વ્યાખ્યા
૧૫૧
પરિશિષ્ટ : ધર્મતીર્થની વ્યાખ્યા २ ललितविस्तरा + तत्र येनेह जीवा जन्मजरामरणसलिलं मिथ्यादर्शनाविरतिगम्भीरं महाभीषणकषायपातालं सुदुर्लध्यमोहावर्त्तरौद्रं विचित्रदुःखौघदुष्टश्वापदं रागद्वेषपवनविक्षोभितं संयोगवियोगवीचीयुक्तं प्रबलमनोरथवेलाकुलं सुदीर्घ संसारसागरं तरन्ति तत्तीर्थमिति। एतच्च यथावस्थितसकलजीवादिपदार्थप्ररूपकम, अत्यन्तानवद्यान्याविज्ञातचरणकरणक्रियाऽऽधारं. त्रैलोक्यगत-शुद्धधर्मसंपद्युक्तमहासत्त्वाश्रयम्, अचिन्त्यशक्तिसमन्विताविसंवादिपरमबोहित्थकल्पं प्रवचनं सङ्घो वा, निराधारस्य प्रवचनस्यासम्भवात्। उक्तं च- 'तित्थं भंते! तित्थं? तित्थगरे तित्थं?' 'गोयमा! अरहा (प्र.अरिहा) ताव नियमा तित्थंकरे, तित्थं पुण चाउव्वण्णो समणसङ्घो' । २ षोडशक टीका (उपा. यशोविजयजी) + उ0 किं धर्मस्य स्वलक्षणमित्याहधर्म इत्यादि। धर्मश्चित्तप्रभवो मानसाकूतजो न तु सम्मूर्छनजतुल्यक्रियामात्रं, यतो-धर्मात्, क्रियाया विहितनिषिद्धाचरणत्याग-रूपाया, अधिकरणम्-अधिकारस्तदाश्रयं, कार्यं भवनिर्वेदादि भवति। एषः-मार्गानुसारी धर्मो लक्ष्यो, नत्वभव्यादिगतोपि। स च मलविगमेन पुष्ट्यादिमत्-पुष्टिशुद्धिमदन्तःचित्तं विज्ञेयो लक्षणनिर्देशोऽयं ।।२।।
(षोडशक ३, श्लोक २ टीका) ३ नंदीसुत्तं चूर्णि + तित्थं च-चातुवण्णो समणसंघो पढमादिगणधरा वा, २ धर्मबिन्दु टीका + 'धनं' धान्य-क्षेत्र-वास्तु-द्विपद-चतुष्पदभेदभिन्नं हिरण्य-सुवर्ण-मणि-मौक्तिक-शङ्ख-शिला-प्रवालादिभेदं च धनपतिधनंर्द्धिप्रतिस्पर्धि तीर्थोपयोगफलं ददाति प्रयच्छति यः स तथा, ... 'कामाः' मनोहरा अक्लिष्टप्रकृतयः परमालाददायिनः परिणामसुन्दरा: शब्द-रूप-रस-गन्ध-स्पर्शलक्षणा इन्द्रियार्थाः, ... उच्यते इति वचनम् आगमः, तस्मात्, वचनमनुसृत्येत्यर्थः, “यदि' त्यद्याप्यनिरूपितविशेषम् ‘अनुष्ठानम्' इहलोकपरलोकावपेक्ष्य हेयोपादेययोरर्थयोरिहैव शास्त्रे वक्ष्यमाणलक्षणयो-ानोपादानलक्षणा प्रवृत्तिः ‘तद् धर्म इति कीर्त्यते' इत्युत्तरेण योग:, कीदृशाद्वचनादित्याह-‘अविरुद्धात्' निर्देक्ष्यमाणलक्षणेषु कष-च्छेद-तापेषु अविघटमानात्, तच्चाविरुद्धं वचनं जिनप्रणीतमेव, निमित्तशुद्धेः। वचनस्य हि वक्ता निमित्तमन्तरङ्गम्, तस्य च राग-द्वेष-मोहपारतन्त्र्यमशुद्धिः, तेभ्यो वितथवचनप्रवृत्तेः, न चैषा अशुद्धिर्जिने भगवति, जिनत्वविरोधात्, जयति राग-द्वेष-मोहस्वरूपानन्तरङ्गान् रिपूनिति जिन इति शब्दार्थानुपपत्तेः, तपन-दहनादिशब्दवदन्वर्थतया चास्याभ्युपगमात्। निमित्तशुद्ध्यभावान्नाजिनप्रणीतमविरुद्धं वचनम्, यतः कारणस्वरूपानुविधायि कार्यम्, तन्न दुष्टकारणारब्धं कार्यमदुष्टं भवितुमर्हति, निम्बबीजादिवेक्षुयष्टिरिति, अन्यथा कारणव्यवस्थोपरमप्रसङ्गात्। यच्च यदृच्छाप्रणयनप्रवृत्तेषु तीर्थान्तरीयेषु रागादिमत्स्वपि घुणाक्षरोत्किरणव्यवहारेण क्वचित् किञ्चिदविरुद्धमपि वचनमुपलभ्यते मार्गानुसारिबुद्धौ वा प्राणिनि क्वचित् तदपि जिनप्रणीतमेव, तन्मूलत्वात्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org