________________
ધર્મતીર્થની વ્યાખ્યા
૧૦૯ સ્થૂલ લોકવ્યવહારની દૃષ્ટિકોણ છે. પરંતુ તત્ત્વથી આત્માને ડુબાડનાર એવા અપાર દુઃખરૂપી સંસારસાગરથી જે પાર પમાડે અર્થાત્ આત્માને તારે તેને જ વાસ્તવમાં તીર્થ કહેવાય. આ ‘તીર્થ” શબ્દનો તાત્ત્વિક અર્થ છે, જૈનધર્મ તીર્થ શબ્દનો આ આધ્યાત્મિક અર્થ દર્શાવે છે. લૌકિક શબ્દાર્થને આપણે weightage-ભાર-મહત્ત્વ નથી આપતા. વૈદિક ધર્મશાસ્ત્રોએ જળમાંથી તરવાનો લૌકિક અર્થ ગ્રહણ કરીને સંગમસ્થાનો આદિને પવિત્ર તીર્થ તરીકે સ્થાપિત કર્યા, જેનું જૈનાચાર્યોએ ખંડન કર્યું છે; કારણ કે આ તીર્થ શબ્દનો ઔપચારિક અર્થ છે.
★ तीर्थं नद्यादेरिव संसारस्य तरणे सुखावतारो मार्गः।
(योगशास्त्र प्रकाश २ श्लोक १६ टीका) ★ तीर्थं नद्यादेरिव संसारतारेण(रणे)- सुखावतारो मार्ग:,
(सम्यक्त्वसप्तति श्लोक ४० टीका) ★ तीर्यतेऽनेन संसारसागर इति 'तीर्थं' प्रवचनम्, तदाधारत्वाच्च चतुर्विधः श्रमणसङ्घोऽपि तीर्थमुच्यते, तत इदमाहचतुर्वणे सो स्थापिते सति तीर्थं भवति।
(गुरुतत्त्वविनिश्चय प्रथम उल्लास श्लोक ६९ टीका) १ तत्र नेनेह जीवा जन्मजरामरणसलिलं मिथ्यादर्शनाविरतिगम्भीरं महाभीषणकषायपातालं सुदुर्लध्यमोहावर्त्तरौद्रं विचित्रदुःखौघदुष्टश्वापदं रागद्वेषपवनविक्षोभितं संयोगवियोगवीचीयुक्तं प्रबलमनोरथवेलाकुलं सुदीर्घ संसारसागरं तरन्ति तत्तीर्थमिति।
(ललितविस्तरा) ★ तत्र जन्मजरामरणसलिलसङ्कुलं मिथ्यादर्शनाविरतिगम्भीरं रागद्वेषपवनविक्षोभितं नानाविधानिष्टेष्टसंयोगवियोगवीचिनिचयोपेतं दुरवगाहमोहावर्त्तभीषणं विविधशारीरमानसानेकदुःखौघदुष्टश्वापदं महाभीमकषायपातालं प्रबलमनोरथवेलाकुलं, सुदीर्घसंसारसागरं तरन्त्यनेनेति तीर्थम्,
__ (धर्मसंग्रहणी श्लोक १-२ टीका) ★ तत्र येनेह जीवा जन्म-जरा-मरणसलिलं मिथ्यादर्शना-ऽविरतिगम्भीरं विचित्रदुःखगणकरिमकरं रागद्वेषपवनप्रक्षोभितमनन्तसंसारसागरं तरन्ति तत् तीर्थमिति, तच्च यथावस्थितसकलजीवाऽजीवादिपदार्थप्ररूपकं अत्यन्तानवद्या-ऽन्याविज्ञातचरणकरणक्रियाधारं अचिन्त्यशक्तिसमन्विताविसंवाद्युडुपकल्पं चतुस्त्रिंशदतिशयसमन्वितपरमगुरुप्रणीतं प्रवचनम्, एतच्च सङ्घः प्रथमगणधरो वा, तथा चोक्तम्-"तित्थं भंते तित्थं? तित्थकरे तित्थं?, गोयमा! अरिहा ताव नियमा तित्थंकरे, तित्थं पुण चाउव्वण्णो समणसंघो पढमगणहरो वा" [भग.श.२३.उ.८.सू. ६८२]
(नंदीसूत्र फकरो ३९ टीका) २ इह केचित् तीथिका मन्यन्ते-नद्यादेः संबन्धि द्रव्यतीर्थं किल स्नान-पाना-ऽवगाहनादिभिर्विधिवदासेव्यमानं भवतारकं संसारमहामकरालयप्रापकं भवत्येव। कुतः?, तारणादिफलमिति कृत्वा-शरीरतारण-मलक्षालन-तृड्व्यवच्छेद(दाहो)देहोपशमादिफलत्वादित्यर्थः; अनेन चाध्यक्ष(समीहित)समीक्षितदेहतारणादिफलेन परोक्षस्यापि संसारतारणफलस्याऽनुमीयमानत्वादिति भावः। तदेतद् नोपपद्यते, स्नानादेर्जीवोपघातहेतुत्वात्, खड्गा-ऽसि-धेनु-शूलादिवदिति। एतदुक्तं भवति-जीवोपघातहेतुत्वाद् दुर्गतिफला एव स्नानादयः कथं नु भवतारकास्ते भवेयुः, सूना-वध्यभूम्यादीनामपि भवतारकत्वप्रसङ्गात्? इति। इतश्चनद्यादितीर्थं भवतारकं न भवति, सूनाङ्गत्वात्-सूनाप्रकारत्वात्, उदूखलादिवदिति। न च पुण्यकारणं स्नानम्, नापि यतिजनयोग्यं तत्, कामाङ्गत्वात्, मण्डनवत्; अन्यथा ताम्बूलभक्षण-पुष्पबन्धन-देहादिधूपना-ऽभ्यञ्जनादयोऽपि च भुजङ्गादीनां पुण्यहेतवः स्युः। न च देहतारणादिमात्रफलदर्शनेन विशिष्टं भवतारणादिकं फलमुपपद्यते, नियामकाभावात्, प्रत्यक्षवीक्षितप्राण्युपमर्द
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org