________________
ધર્મતીર્થની વ્યાખ્યા
૭૧ એ ધર્મ છે. અથવા અપ્રમાદ એ ધર્મ છે. અથવા ૧ અધ્યાત્મનો પરિણામ તે જ ધર્મ છે. અથવા ૨ તમારા
संयमवानिति । तदेवं रागद्वेषवियुक्तस्य वस्तुस्वरूपाविर्भावने न काचिद्गहेति, अथ तत्रापि गर्दा भवति न त ष्णोऽग्निः शीतमुदकं विषं मारणात्मकमित्येवमादि किञ्चिद्वस्तुस्वरूपमाविर्भावनीयमिति ।।१४।।
(सूत्रकृतांगसूत्र - आ. शीलाङ्काचार्य टीका द्वितीय श्रुतस्कंध षष्ठ अध्ययन सूत्र १३-१४ टीका) ★ व्याख्या-द्वेधा भवति भावधर्मः, 'सुअचरणे यत्ति श्रुतविषयश्चरणविषयश्च, एतदुक्तं भवति-श्रुतधर्मश्चारित्रधर्मश्च, 'सुअंमि सज्झाओ'त्ति श्रुत इति द्वारपरामर्शः, स्वाध्यायो-वाचनादिः श्रुतधर्म इत्यर्थः, 'चरणंमि समणधम्मो खंतीमाई भवे दसह'त्ति तत्र चरण इति परामर्शः, श्रमणधर्मो दशविधः क्षान्त्यादिश्चरणधर्म इति गाथार्थः।।१०६४ ।।
(आवश्यकसूत्र नियुक्ति एवं भाष्य श्लोक १०६४ टीका) ★ धर्मः श्रुत-चारित्रात्मको जीवस्यात्मपरिणाम: कर्मक्षयकारणम्। (सूत्रकृताङ्ग शीलांकाचार्य वृत्ति २,५,१४) ★ संसारे पतन्तं जीवमुद्धृत्य नागेंद्र-नरेन्द्र-देवेन्द्रादिवन्द्ये अव्याबाधानन्तसुखाद्यनन्तगुणलक्षणे मोक्षपदे धरतीति धर्मः ..... निश्चय-व्यवहाररत्नत्रयात्मको ...... धर्मः।
__ (बृहद् द्रव्यसंग्रह टीका ३५) ★ इह द्विविधो धर्म:-पुण्यकर्मप्रकृतिलक्षणः सम्यग्ज्ञानादिरूपात्मपरिणामलक्षणश्च, (धर्मसंग्रहणी श्लोक २५ टीका) ★ प्रशमादिलिङ्गगम्यो जीवस्वभावलक्षणो भावधर्मो,
(धर्मसंग्रहणी श्लोक ३४ टीका) ★ धारयति’ निवारयति दुर्गतौ प्रपतन्तमात्मानं यतस्तेन कारणेन धर्म इति समाख्यातो वक्ष्यमाणः सम्यग्दर्शनाद्यात्मपरिणामः । अथवा शिवगतौ सततं 'धारणात्' स्थापनात् धर्म इति समाख्यातः।।२०।। (धर्मसंग्रहणी श्लोक २० टीका) ★ यो भवार्णवे निपतन्तं जीवं क्षमादिगुणोपष्टम्भदानेन धारयति स धर्मो भगवत्प्रणीतः श्रुतचारित्रलक्षणः,
(धर्मपरीक्षा श्लोक २ टीका) * 'धर्मरागश्च'-चारित्रधर्मानुरागरूपः।
(योगबिन्दु श्लोक २५३ टीका) ★ धर्मो-निःश्रेयसधर्मः सम्यग्दर्शनादिः,
(ललितविस्तरा पंजिका) ★ धर्म:-निःश्रेयसनिबन्धनं सम्यक्त्वादिपरिणामः सः, 'यतो निःश्रेयससिद्धिः' इति वचनात् तद्धेतुश्च बाह्यचेष्टा, कारणे कायोपचारात्
(श्रावकधर्मविधि० श्लोक १ टीका) १ बाह्याध्यात्मिकभावानां याथात्म्यं धर्मस्तस्मादनपेतं धर्म्यम्। (शास्त्रवार्ता समुच्चय टीका स्तबक - ९ श्लोक २०) २. ता णीसल्ले भवित्ताणं सव्वसल्ल-विवज्जिए। जे धम्मसमणु चिट्ठज्जा, सव्व-भूयऽप्पकंपि वा।।३८ ।।
(महानिशीथ सूत्र सल्लुद्धरणं नाम पढमं अज्झयणं) * अथ किंस्वरूपः स धर्मो योऽत्यन्तासाधारण: पुरुषार्थ इत्यतस्तत्स्वरूपमुपदिशति-‘सपरुवयारो य सो मुणेयव्वोत्ति' स्वपरयोरुपकारस्वरूपश्च 'स' 'धर्मो ज्ञातव्यः।
(धर्मसंग्रहणी श्लोक ४ टीका) ★ धर्म एतस्यौषधं मृत्योाधिकल्पस्य। किंविशिष्टः? इत्याह-एकान्तविशुद्धः निवृत्तिरूपः, महापुरुषसेवितः तीर्थकरादिसेवितः, सर्वहितकारी मैत्र्यादिरूपतया। निरतिचारो यथागृहीतपरिपालनेन। परमानन्दहेतुः, निर्वाणकारणमित्यर्थः।
(पंचसूत्र द्वितीय सूत्र टीका)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org