________________
७०
ધર્મતીર્થની વ્યાખ્યા સાનુબંધ ધર્મ તે જ સાચો ધર્મ છે, જ્યારે નિરનુબંધ ધર્મ અધર્મ છે. એટલે કે જે ધર્મ, ધર્મની ઉત્તરોત્તર પરંપરા દ્વારા પૂર્ણ ધર્મને પ્રગટાવે તે જ સાચો ધર્મ, પરંતુ જે ધર્મમાંથી અધર્મની પરંપરા પ્રગટે તે ધર્મ વાસ્તવમાં અધર્મ જ સમજવો. અથવા સમ્યજ્ઞાન અને સમ્યકૈિયા એ ધર્મ છે. અથવા સમ્યગ્દર્શન, સમ્યજ્ઞાન, સમ્યગ્વારિત્ર
प्रस्तुतत्वादेतदित्यत्र पुल्लिङ्गतायामेष इति निर्देशः प्राप्नोति, तथापि धर्मतत्त्वमित्यस्य पदस्य प्राधान्यापेक्षया नपुंसकनिर्देशः। अर्थस्तु एतदिह प्रस्तुतं, भावस्वरूपं धर्मतत्त्वं, नान्यत् परमो योग इति । अयं भावः परमो योगो वर्त्तते । स च कीदृक्-विमुक्तिरस: विशिष्टा मुक्तिविमुक्तिस्तद्विषयो रसः प्रीतिविशेषो यस्मिन्योगे स विमुक्तिरसः, विमुक्तौ रसोऽस्येति वा गमकत्वात्समास:, अथवा पृथगेव पदान्तरं, न विशेषणं, तेनायं भावो विमुक्तौ रस:-प्रीतिविशेषो विमुक्तिरस उच्यते। एतदुक्तं भवति- भाव एव धर्मतत्त्वं, भाव एव च परमो योगो, भाव एव च विमुक्तिरस इति ।।१३।।
(षोडशक त्रीजें, श्लोक १३ आ. यशोभद्रसूरि टीका) १ सज्ञानक्रियारूप एवैकः, आत्मस्वभावः,
(शास्त्रवार्ता समुच्चय स्वोपज्ञ श्लोक २० टीका) ★ प्रवचनसार एष सज्ज्ञान-क्रियायोगात्।
(पंचसूत्र प्रथम पापप्रणिघातगुणबीजाधान सूत्र टीका) * धर्म:-श्रुतचारित्रलक्षणस्तस्योपदेशो-देशना तस्य श्रवणं श्रुतिविशेषतो गृहिधर्मो भवतीति योगः, एवमग्रेऽपि, धर्मश्रवणादेव हि श्रावकशब्दोऽन्वेति,
(धर्मसंग्रह श्लोक ६३ टीका) ★ सर्वत्रापीहलोकफलेषु परलोकफलेषु च कृत्येष्वविधिभावपरित्यागेनानुचितप्रवृत्तिनिरोधरूपेण चरित्वा निषेव्य विशुद्धधर्म्म श्रुतचारित्रलक्षणम्
(उपदेशपद श्लोक ४१२ टीका) ★ 'धर्मप्रवृत्तानां' मोक्षहेतुसदनुष्ठानसमुपस्थितानाम्, (अष्टक प्रकरण० अष्टक - २५, श्लोक ७ टीका) २ सम्मत्तनाणचरणा मोक्खपहो वनिओ जिणिंदेहिं । सो चेव भावधम्मो बुद्धिमता होति नायव्वो।।७४९।।
(धर्मसंग्रहणी मूल) ★ 'धर्म' श्रद्धेयज्ञेयानुष्ठेयवस्तुश्रद्धाज्ञानानुष्ठानरूपं । तथा परिकथयति अशेषविशेषकथनेनेति। तथा 'तेसिं सव्वेसि आरियमणारियाणं अगिलाए धम्ममाइक्खई' न केवलं ऋषिपर्षदादीनां, ये वन्दनाद्यर्थमागतास्तेषां च सर्वेषामार्याणाम्आर्यदेशोत्पन्नानामनार्याणां-म्लेच्छानामग्लान्या अखेदेनेति।
___(उपासकदशांगसूत्र सूत्र २४ आ. अभयदेवसूरिजी टीका टीका) ★ अयं ‘मार्गः' पन्थाः सम्यग्दर्शनादिक: ‘कीर्तितो' व्यावर्णितः, कै?- 'आर्यः' सर्वज्ञेस्त्याज्यधर्मदूरवर्तिभिः, किंभूतो धर्मो?-नास्मादुत्तर:-प्रधानो विद्यत इत्यनुत्तरः पूर्वापराव्याहतत्वाद्यथावस्थितजीवादिपदार्थस्वरूपनिरूपणाच्च, किंभूतैरायः?सन्तश्च ते पुरुषाश्च सत्पुरुषास्तैश्चतुस्त्रिंशदतिशयोपेतैराविर्भूतसमस्तपदार्थाविर्भावकदिव्यज्ञानैः, किंभूतो मार्गो?- अंजू व्यक्तः निर्दोषत्वात्प्रकट: ऋजुर्वा वक्रैकान्तपरित्यागादकुटिल इति।।१३।। पुनरपि सद्धर्मस्वरूपनिरूपणायाह-‘उड्ढे अहेय'मित्यादि, ऊर्ध्वमधस्तिर्यक्ष्वेवं सर्वास्वपि दिक्षु प्रज्ञापकापेक्षया भावदिगपेक्षया वा तासु ये त्रसा ये च स्थावराः प्राणिनः चशब्दौ स्वगतानेकभेदसंसूचको, ‘भूतं' सद्भूतं तथ्यं तत्राभिशङ्कया-तथ्यनिर्णयेन प्राणातिपातादिकं पातकं जुगुप्समानो गर्हमाणो वा यदिवा भूताभिशङ्कया प्राण्युपमर्दशङ्कया सर्वसावद्यमनुष्ठानं जुगुप्समानो नैवापरलोकं कञ्चन 'गर्हति' निन्दति 'बुसिमंति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org