________________
ધર્મતીર્થની વ્યાખ્યા
૬૯
1
પેદા થયેલા આત્માના ગુણ કે ક્ષાયિક ભાવથી પેદા થયેલા આત્માના ગુણ તે ધર્મ છે. અથવા ૧ વિવેકયુક્ત મૈત્રી આદિ ભાવોપૂર્વક કરાતું તત્ત્વચિંતન તે ધર્મ છે. અથવા ર પ્રણિધાન આદિ પાંચ આશય તે ધર્મ છે. અથવા
3
★ दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते। संयमादिर्दशविधः सर्व्वज्ञोक्तो विमुक्तये ।। ११ ।। (योगशास्त्र प्रकाश - २ मूल) १ पुनरपि कीदृशमित्याह- 'मैत्र्यादिभावसंयुक्तम्', मैत्र्यादयो मैत्री - प्रमोद - करुणा-माध्यस्थ्यलक्षणा ये भावा अन्तःकरणपरिणामाः, तत्पूर्वकाश्च बाह्यचेष्टाविशेषाः सत्त्व-गुणाधिक-क्लिश्यमानाऽविनेयेषु, तैः 'संयुक्तं ' संमिलितं मैत्र्यादिभावानां निःश्रेयसाऽभ्युदयफलधर्मकल्पद्रुममूलत्वेन शास्त्रान्तरेषु प्रतिपादनात् । तदेवंविधमनुष्ठानं 'धर्म' इति दुर्गतिपतज्जन्तुजातधरणात् स्वर्गादिसुगतौ धानाच्च ‘धर्म इत्येवंरूपत्वेन कीर्त्यते शब्द्यते सकलाकल्पितभावकलापाऽऽकलनकुशलैः सुधीभिरिति । इदं चाविरुद्धवचनादनुष्ठानमिह धर्म उच्यते उपचारात्, यथा नड्वलोदकं पादरोगः, अन्यथा शुद्धानुष्ठानजन्या कर्ममलापगमलक्षणा सम्यग्दर्शनादिनिर्वाणबीजलाभफला जीवशुद्धिरेव धर्मः । । ३ । । (धर्मबिन्दु अध्याय १, श्लोक ३ टीका) ★ वचनाद्यदनुष्ठानमविरुद्धाद्यथोदितम्। मैत्र्यादिभावसंयुक्तं तद्धर्म इति कीर्त्यते ।। (धर्मबिन्दु अध्याय १, श्लोक ३) ★ धर्मं गुणाधिकविषयप्रमोदसाध्यं (उपदेशमाला हेयोपादेया टीका श्लोक ६७)
★ जं जीवियधणजोव्वणमुहाण खणभंगुरत्तणं हियए । भाविज्जइ एसो भावणागओ भासिओ धम्मो । । ११२ । ।
3 अस्य स्वलक्षणमिदं धर्मस्य बुधैः सदैव विज्ञेयम् । सर्वागमपरिशुद्धं यदादिमध्यांतकल्याणम् ।।१।। ( षोडशक त्रीजुं, मूल) ★ धर्म (प्रo धर्मस्य ) प्रारम्भावसानसुन्दरपरिणामरूपत्वाद्, (ललितविस्तरा पंजिका) * व्याख्या-जायते संपद्यते। चशब्दः पुनरर्थः । शुभः कुशलानुबन्धः शुभनिमित्तत्वात्। एष धर्मः । उचितार्थापादनेनानुरूपवस्तुसंपादनेन। सर्वस्य समस्तजनस्य । इहैव विशेषमाह - ' जत्ताए' इत्यादि, काक्वा चेदमध्येयं । यात्रयोत्सवेन पुनर्यात्रायां वा । उचितार्थापादनेनेति प्रकृतं । केषां ? वीतरागाणां जिनानां । विषयसारत्वतः प्रधानगोचरत्वात् । वीतरागा एव हि निखिल - भुवनजनातिशांयिगुणत्वेन .यात्रागोचरोऽनुपचरितो भवतीति । प्रवरः प्रधानतरः । शेषजनोचितार्थसंपादनोद्भवधर्मापेक्षया जायत इति प्रकृतं । इति गाथार्थः । । १९ ।। (पंचाशक प्रकरण पंचाशक- ९ श्लोक १९ टीका) २,३ अस्माच्चेत्यादि। अस्माच्च - आशयपञ्चकरूपाद्भावात्, सानुबंधाद् - अव्यवच्छिन्नसंतानात्, क्रमशः क्रमेण, तस्मिन् जन्मन्यपरस्मिन् वा द्रुतम्- अविलंबितं, शुद्धेः - कर्मक्षयस्यान्तःप्रकर्षोऽवाप्यते एतदिह प्रस्तुतं भावस्वरूपं धर्मतत्त्वं, नान्यत् । ‘एतद्' इत्यत्र विधेयपदलिङ्गविवक्षया नपुंसकत्वं तेन न भावस्य प्रस्तुतत्वाद् “एषः” इति निर्देशप्राप्तिः । अयं भावः परमो योगो वर्त्ततेऽध्यात्मगर्भत्वात् । कीदृशो ? विशिष्टो मुक्तौ रसोऽभिलाषो यत्र स तथा । अयं भाव एव विशिष्टमुक्ते (एतद् विशिष्टे मुक्तेः) रस-आस्वाद, इति वा व्याख्येयम् ।। १३ ।। ( षोडशक त्रीजुं, श्लोक १३ उ. यशोविजयजी टीका) * अस्माच्चेत्यादि। अस्माच्च- पूर्वोक्ताद्भावादाशयपञ्चकरूपात्, सानुबंधात् अनुबंध: सन्तानस्तेन सह वर्त्तते यो भावः स सानुबंधस्तदविनाभूतः, स चाव्यवच्छिन्नसन्तानस्तस्मादेवंविधाद्भावात्, शुद्धेरन्तः प्रकर्ष:- शुद्ध्यन्तः, अवाप्यते प्राप्यते, द्रुतम्=अविलंबितं प्रभूतकालात्ययविगमेन, क्रमशः - क्रमेणानुपूर्व्या, तस्मिन् जन्मन्यपरस्मिन्वा कर्म्मक्षयप्रकर्षो लभ्यते । चैष एव भावो धर्म्मपरमार्थ आहोस्विदन्यद्धर्म्मतत्त्वमित्यारेकायां परस्य निर्व्वचनमाह- एतदिह धर्म्मतत्त्वं - अत्र यद्यपि भावस्य
Jain Education International
( उपदेशपद श्लोक ५५० टीका)
For Personal & Private Use Only
www.jainelibrary.org