________________
मदन-धनदेवकथा
137
॥३४॥
॥३५॥
॥३६ ।।
||३७॥
॥३८॥
विशुद्धकुलजाताय, तस्मै सर्वगुणाऽऽत्मने। देयाः कन्यां स च स्थाप्यः, स्वौकस्येवाऽवियुक्तये इत्युक्त्वा देव्यगादद्य, तद्वचःकारकोऽप्यहम् । तदादेशाहदे पुत्री-मिमां परिणयस्व तत् त्यक्तपूर्वकलत्रेण, कियन्तं समयं मया। वण्ठेनेव क्व च स्थेय-मेककेन प्रियां विना इदृग् च देवताऽऽदिष्टा, दुष्प्रापाऽपि ममाऽभवत्। सुप्रापा भाग्ययोगेन, मनोविश्रामभूः कनी तदेतां परिणीयाऽत्र, तिष्ठामि धनभोगयुक् । इति ध्यात्वा प्रपेदे तन्मदनः श्रेष्ठिनो वचः ततः श्रेष्ठी विवादैतां, तेन हर्षोत्सवाद्वयात् । ददे तस्मै धनं गेहोपस्करं च प्रमातिगम् आवासे श्रेष्ठिना दत्ते, मदनोऽपि नवोढया। तया सस्नेहया साकं, भुङ्क्ते भोगान् यथारूचि भोगा यद् यत्र तत्राऽपि, भवन्त्याऽकस्मिका नृणाम् । पुण्यस्यैव प्रभावोऽयं, ततः कुरूत तजनाः! एवं सुखमये याते, समयेऽस्य कियत्यथ । आगाद्वियोगिनीकालो, वर्षाकालोऽन्यदा क्रमात् तस्मिन्निश्यन्यदा कान्तं, स्मृत्वा स्मरवशां वशाम्। वियुक्तां रूदती काञ्चित्, स गवाक्षस्थितोऽशृणोत् दध्यौ चैषा यथा भर्तु-वियोगात्स्मरपीडिता। रोरूदीति तथा मन्ये नारीभिःसोऽतिदुस्सहः
||३९।।
॥४०॥
॥४१॥
|॥४२॥
॥४३॥
॥॥४४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org