________________
138
श्री मुनिसुन्दरसूरिविरचिता
॥४५॥
॥४६॥
॥४७॥
॥४८॥
॥४९॥
ततो ये द्वे मया मुक्ते, प्रिये स्नेहवशे चिरम् । स्मृत्वा मां ते स्मराय॑ते, कथमद्य भविष्यतः कथञ्चित्सकृद्गत्वा, चिरादाश्वसयामि ते। विशिष्याऽनपराधां च, प्रचण्डामुपकारिणीम् इति स्मृत्वा प्रियायुग्म-वियोगभवदुःखतः । अमुञ्चदश्रुधारां स, वाससा लोचनेऽस्पृशत् तं च विद्युल्लताऽद्राक्षीत्, क्षुब्धाऽप्राक्षीच्च हे प्रिय!। उदितं रूदितं किं ते-ऽधुनैवाऽऽकस्मिकं हहा! अवदन्नपि तद्धेतुं, निर्बन्धे तु कृतेऽवदत्। सर्वं व्यतिकरं पूर्व-पन्योस्तत्स्मरणादि च यद्येवं न हि किं तत्र, गत्वा नाऽऽश्वासयस्यमू?। तयेत्युक्तेऽवदत्सोऽपि, यदि त्वमनुमन्यसे तदा यामीति सा श्रुत्वा, स्त्रीस्वभावाभृशेर्प्यिता। दध्यौ कुर्वेऽस्य शुश्रूषां, सर्वां दासीव सर्वदा विनयाऽतिक्रमात्स्नेह-प्रातिकूल्यं कदापि च । नर्मणाऽपि गिरा वाऽपि, क्वाऽपि नाऽण्वप्यदीदृशम् तथाप्येष स्मरत्यद्य, प्राक्पन्योस्तादृशोरपि। नाऽहं स्मरव्यथां पृथ्वीं, सोढुं क्षणमपि क्षमे कालः स्मरसखश्चाऽयं, विलोलजलदावलिः । ततो विस्मारयाम्येनं, कालक्षेपं विधाय ते विचिन्त्येत्यवदत्साऽथ, प्रिय! प्रावृषि सम्प्रति। विषमा गिरिवाहिन्यः पन्थानः पङ्कदुर्गमाः
॥५०॥
॥५१॥
॥५२॥
॥५३॥
॥५४॥
॥५५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org