________________
136
कियद्भिर्वासरैः सोऽथ दिवो जैत्रं निजश्रिया । सङ्काशपुरमागत्योद्यानेऽशोके व्यशंश्रमीत् तावत्तत्रेयुषा भानु-दत्तेन श्रेष्ठिनौच्यत । मदन! स्वागतं ते भो!, एहि यावो निजं गृहम्
स्वनामग्रहणाऽऽह्वानादिभिरेष चमत्कृतः। सह तेनाऽगमत्तस्य, मन्दिरं सुन्दरं श्रिया श्रेष्ठी विधाप्य तं स्नान - भोजनादि सगौरवम् । पुरस्कृत्याऽङ्गजां पाणौ, कुरुष्वेमां जगाविति
सोऽपि तां पक्वबिम्बोष्ठीं, चन्द्रास्यां पद्मलोचनाम् । रूपेणाऽतिरतिं वीक्ष्य, श्रेष्ठिनं विस्मितोऽवदत् कथं जानासि मे नाम ? किं करोषि च गौरवम् ? | अज्ञातकुलशीलस्य, किं च दत्से सुतां निजाम् ?
श्रेष्ठ्यवोचच्चतुर्णां मे, पुत्राणामुपरीप्सिता । सुता विद्युल्लताद्वैषा, जज्ञे नानोपयाचितैः
प्राणेभ्योऽपि ममाऽभीष्टा, पाठिताः सकलाः कलाः । यौवनस्था यदा साऽभूत्, तदैवं हृद्यचिन्तयम्
देया वराय कस्मैचित्, पुत्रीयं लोकरीतितः । न वियोगमहं चाऽस्याः, सोढुं क्षणमपि क्षमे
एवं चिन्तातुरं ह्यो मां, निर्निद्रं शयितं निशि । आगत्य कुलदेव्यूचे, वत्स ! चिन्तां करोषि किम् ?
प्रातरेतत्पुरोद्याने, किङ्किल्लिक्ष्मारुहस्तले । मदनं प्राच्ययामान्ते, कन्यार्हं लप्स्यसे वरम्
Jain Education International
For Personal & Private Use Only
श्री मुनिसुन्दरसूरिविरचिता
।।२३ ॥
।। २४ ।।
।।२५।।
॥२६॥
।।२७ ।।
।।२८ ।।
।।२९ ।।
।।३० ।।
1139 11
।।३२ ।।
।।३३ ॥
www.jainelibrary.org