________________
मदन-धनदेवकथा
135
॥१२॥
॥१४॥
ततः सा मुशलं तस्याभिमुखं प्राक्षिपत्क्रुधा। इष्टा दुष्ट! प्रचण्डा ते, किमत्रैषीति वादिनी तद्वीक्ष्य व्याकुलो भीत्या स नंष्ट्वा कियती भुवम्। यावद्विलोकते पश्चात्तावत्तत्सर्पमैक्षत
||१३|| धावमानं च तं दृष्ट्वा, स्फटाऽऽटोपभयङ्करम् । द्रुतं विशिष्य नंष्ट्वा स, प्रचण्डाया गृहेऽगमत् तं तथा वीक्ष्य साऽप्याख्यद्, भीतिवासाकुलः कथम् । प्रिय! सत्वरमत्रागा-श्चण्डावृत्तं च सोऽप्यवक्
||१५|| सावदद्भव तत्स्वस्थो, नैतत्किञ्चिद्यावहम्। तावद्भुजङ्गमो रौद्र-स्तद्गृहाङ्गणमागमत्
॥१६॥ तं च वीक्ष्य क्रुधा साऽपि, शरीरोद्वर्त्तनोद्वान् । पिण्डानभ्यक्षिपत्सद्यो, बभ्रुभूतैश्च तैरहिः न्यघाति खण्डशः कृत्वा, मदनश्च चमत्कृतः। गतेषु बभ्रषु क्वाऽपि, दध्यौ नानारसाकुलः ||१८ ।। युग्मम्।। चण्डाकोपात्प्रणष्टस्य, प्रचण्डा मे शरण्यभूत कोपिष्यति यदैषाऽपि, तदा कः शरणं पुनः?
॥१९॥ प्रियकारिण्यपि प्रायो, न कुप्यति कदापि यः दुर्लभोऽसौ भुवीदृक्कुयोषा क्रोत्स्यति नो कथम्? ॥२०॥ राक्षस्यौ तदिमे त्यक्त्वा, यामि देशान्तरे क्वचित् । त्याज्यं सोपद्रवं राज्य-मप्यात्मकुशलाय यत् इति ध्यात्वा रहोऽन्येधु-र्गृहीत्वा स्वं धनं बहु । निर्ययौ मदनो देशान्तरे भ्रमति चेच्छया
॥२२॥
|॥१७॥
॥॥२१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org