SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 134 शुद्धज्ञानक्रियाभ्यां यः प्राप्य मोहजयश्रियम् । परां ज्ञानरमा लेभे, तस्मै सर्वविदे नमः अर्थयन्तेऽङ्गिनः शर्मा-भ्यर्थ्यमक्षयमेव तत् । परमैकान्तिकात्यन्तं, निरूपाख्याऽनुपाधिजम् कामजे विपरीतेऽस्माद्रमन्ते दुर्धियः सुखे । न मतं कृतिनामेतत्तद्धि स्त्रीमुख्यसाधनम् स्त्रियश्च कुटिलाः क्रूराः, परिणामेऽतिदुःखदाः । मदनो धनदेवश्च दृष्टान्तोऽत्र निशम्यताम् " स्त्रीणां दुश्चरितं दृष्ट्वा, भोगेभ्यो विरमन्ति ये । स्युः श्रेयः श्रियां पात्रं, तावेवाऽत्र निदर्शनम् तथाहि भरतेऽत्रैव, सन्निवेशे कुशस्थले । समभून्मदनो नाम, श्रेष्ठी 'मदनरूपभाक् तस्य चण्डाप्रचण्डाह्ने, यथार्थाख्ये स्वभावतः। अभूतां मदनस्येव, रतिप्रीती इव प्रिये क्रमाच्चण्डाप्रचण्डाह्ने, पत्युः प्रेमास्पदं भृशम्। मिथश्च कलहायेते, ते यैस्तैरपि कारणै: भृशं कोपाभिमानाभ्यां निषिद्धे च न तिष्ठतः । प्रचण्ड निकटग्रामान्तरे सोऽस्थापयत्ततः कृत्वाऽऽह्नां नियमं चैकैकस्यास्तिष्ठत्ययं गृहे। अन्यदा तु प्रचण्डाया, गृहे केनाऽपि हेतुना स्थित्वैकमधिकं घस्रं चण्डायाः स गृहेऽगमत्। खण्डयन्ती कणान् साऽपि तमागच्छन्तमैक्षत Jain Education International For Personal & Private Use Only श्री मुनिसुन्दरसूरिविरचिता 119 11 11211 ।।३।। 11811 11411 ॥६॥ 11611 ||८|| ।।९।। ।।१० ।। ।।११ ।। युग्मम्।। www.jainelibrary.org
SR No.005520
Book TitleMadan Dhandev Charitra
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages180
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy