________________
નિત્ય આત્મામાં જન્મ-મરણ ઘટાવવાની રીત रेण देहेन्द्रियादित्यागोपादाने एव मरणजन्मनी क्रियाभ्यावृत्त्या भबन्ती प्रेत्यभाव । इत्युच्यते । स एव च संसारः । तदित्थमनुध्यायतः कस्य सचेतसो निर्वेदो नोदीयात् ? तदुक्तम्
जरावियोगमरणव्याधयस्तावदासताम् ।
जन्मैव किं न धीरस्य भूयो भूयस्त्रपाकरम् ॥ . 156. ॥२ - आत्मा नित्य छ, तेने म अने भ२९५ मन्ने नथी मेम અમે કહ્યું છે.
યાયિક – તે સાચું, પરંતુ આત્માના શરીર વગેરે સાથેના સંયોગ-વિયોગને જન્મ-મરણ નામો આપવામાં આવ્યાં હોઈ, દેષ નથી આવતો. મરણને આત્માને ભોગાયતન (શરીર), ઈન્દ્રિય વગેરેથી વિયોગ કહેવામાં આવેલ છે. જન્મને આભાને તેમની સાથે સંગ કહેવામાં આવેલ છે. ફળ આપવા તત્પર થયેલા કર્મસંસ્કારો અનુસાર અનુરૂપ દેહ ઇન્દ્રિય આદિના ત્યાગ ગ્રહણ જ મરણજન્મ છે અને ક્રિયાની અભ્યાવૃત્તિ દ્વારા પુનઃ પુનઃ થતા મરણ-જન્મ જ પ્રભાવ છે એમ અમે કહીએ છીએ. તે જ સંસાર છે. આ પ્રમાણે વિચાર કરતાં કેના ચિત્તમાં નિર્વેદ ન જાગે. તેથી કહ્યું છે કે જરા, વિયેગ, મરણ, વ્યાધિને તો બાજુએ રાખે; વારંવાર લેવો પડતો જન્મ જ શું ધીર પુરુષને શરમજનક નથી !
___ 157. अथ यैरुत्पद्यमानैदेहेन्द्रियादिभिरात्मनः सम्बन्धस्तेषां कथमुत्पत्तिरित्युक्तं सूत्रकृता, 'व्यक्तात् व्यक्तानामुत्पत्तिः प्रत्यक्षप्रामाण्यात्' इति न्यायसूत्र ४.१.११] । व्यक्तादिति कपिलाभ्युपगतत्रिगुणात्मकाव्यक्तरूपकारणनिषेधेन परमाणूनां शरीरादौ कार्ये कारणत्वमाह । तथा हि - पार्थिवमाप्यं तैजसं वायवीयमिति चतुर्विधं कार्य स्वावयवाश्रितमुपलभ्यते । तत्र यथा घटः सावयवः कपालेष्वाश्रितः, एवं कपालान्यपि सावयवत्वात् तदवयवेषु, तदवयवा अपि तदवयवान्तरेष्वित्येवं तावद्यावत् परमाणवो निरवयवा इति । यत्र यावतः कार्यजातस्य स्वावयवाश्रितस्य प्रत्यक्षेण ग्रहणं तत्र तदेव प्रमाणम् । तत ऊर्ध्वमनुमानम् । तदपि हि कार्य स्वावयवाश्रितम् , सावयवत्वात् , परिदृश्यमानकार्यवत् । निरवयवत्वे तु तस्य परमाणुत्वमेव । परमाणुषु च सावयवत्वस्य च हेतोरसिद्धत्वान्नावयवान्तरकल्पना । तेषां हिं सावयवत्वे तदवयवाः परमाणवो भवेयुः । उत्पत्तिकमवत् विनाशक्रमेणापि परमाणयोऽनुमीयन्ते । लोष्टस्य प्रविभज्यमानस्य भागाः, तद्भागानां च भागान्तराणीत्येवं तावद्यावदशक्यभङ्गत्वमदर्शनविषयत्वं च भवति । तद्यतः परमवयवविभागो न सम्भवति ते परमाणव उच्यन्ते । तेष्वपि हि विभज्यमानेषु तदवयवाः परमाणवो भवेयुः । तदेवमुत्पत्तिविनाशक्रमस्येदृशो दर्शनात् सन्ति परमाणवः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org