________________
२२८
ક્ષણભંગવામાં પરલોક આદિ ઘટતાં નથી कर्मानुवृत्तिरप्येषा न चैकस्यास्ति कस्यचित् ॥ कार्यकारणयोर्भेदात् कार्पासकुसुमादिवत् । अन्यत्रौव हि कर्म स्यादन्यत्रौव च तत्फलम् ॥ न च सन्तानभोगाय कश्चित् कर्मानुतिष्ठति । फलमस्मान्ममैव स्यादिति सर्वः प्रवर्तते ॥ सर्वथा शाक्यभिक्षूणां परलोको विसंष्ठुलः । न तत्प्रसाधने तेषां काचिद्गमनिकाऽस्ति वा ।। गर्भादौ प्रथमं ज्ञानं विज्ञानान्तरपूर्वकम् । ज्ञानत्वादित्ययं हेतुरप्रयोजक इष्यते ॥ मूर्छाधनन्तरोद्भूतज्ञानैश्च व्यभिचार्ययम् । मूर्छितस्यापि विज्ञानमस्तीत्येतत्तु कौतुकम् ॥ न. ह्यर्थावगते रत्यद्रूपं ज्ञानस्य किञ्चन । मूर्छादिषु कुतस्तत्स्यात् कुतो वा कललादिषु ।। कललादिदशायां वा यदि विज्ञानमिष्यते । मातापितृस्थयोरस्तु शुक्रशोणितयोरपि । ततश्चैकत्र सन्तामे चेतनद्वयमापतेत् । चेतनानां वहुत्वं वा दम्पत्योबहुपुत्रयोः ।। न चैष नियमो लोके सदृशात् सदृशोद्भवः । वृश्चिकादेः समुत्पादो गोमयादपि दृश्यते ।। शरीरान्तरसञ्चारचातुर्य च धियां कथम् । ज्वालादिवन्न मूर्तत्वं न च व्यापकताऽऽत्मवत् ॥ आतिवाहिकदेहेन नीयन्ते चेद्भवान्तरम् । नन्वातिवाहिकेऽप्यासां कथं सञ्चारसंभवः ।। आस्तामेवैष वा जीवदेहेऽपि पथि गच्छताम् । प्रदेशान्तरसंचारो ज्ञानानां भवतां कथम् ।। न ह्येषां भूतधर्मत्वं न स्वतो गतिशक्तिता । न च जात्यादिवद् वृत्तिर्न च व्यापकताऽऽत्मवत् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org