SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ૨૧૮ વાક્ષાર્થ વિશે ભિન્ન મતો નિરૂપણ તે અન્ય શાસ્ત્રમાં = વ્યાકરણશાસ્ત્રમાં , વિસ્તારથી કરવામાં આવ્યું છે. તેનું ખેડાણ કરવાનું અમારું પ્રજન નથી તે ક્ષેત્ર અતિ વિસ્તૃત છે. એટલે અન્ય દિશાની પરીક્ષા કરવા માટે અમે સમય ફાળવીએ છીએ [ શબ્દને ] જાતિ વગેરે અર્થનું સમર્થન કરવા દ્વારા શબ્દો બાહ્ય અર્થને સ્પર્શે છે, ગ્રહે છે એ અમે જણાવી દીધું. આ અવસરે એટલાથી જ અમે કૃતાર્થ છીએ. ___161. एवं पदार्थे निर्णीते वाक्यार्थश्चिन्त्यतेऽधुना । ___ तत्र विप्रतिपत्तिश्च बहुरूपा विपश्चिताम् ॥ केचिदाचक्षते --बाह्यस्य वाक्यार्थस्यासम्भवात् पदार्थसंसर्गनिर्भासं ज्ञानमेव वाक्यार्थ इति । अन्ये तु–वास्तवः पदार्थानां परस्परसंसर्गो बाह्य एव वाक्यार्थ इत्याहुः । अन्यव्यवच्छेदो वाक्यार्थ इत्यपरे, शुक्लादिपदान्तरोच्चारणे कृष्णादिनिवृत्तेरवगमात् । अपरे सङ्गिरन्ते- संसर्गस्य दुरपह्नवत्वात् तस्य च गुणप्रधानभावगर्भवाद् गुणीभूतकारकनिकरनियां प्रधानभूता क्रिया वाक्यार्थ इति । - अन्ये मन्यन्ते --- भाव्यनिष्ठः पुरुषव्यापारः करोत्यर्थो भावनाशब्दवाच्यो वाक्यार्थः । लिङादिशब्दव्यापारवाच्यस्तु शब्दभावनाख्यः पुरुषार्थभावनाऽनुष्ठाने प्रवर्तकः स एव विघिरुच्यते । अन्ये ब्रुवते द्वयाभिधाने लिङादेः प्रत्ययस्य भागौरवाद्विधिरेव वाक्यार्थः, स एवानुष्ठेयः प्रवर्तकश्चेति । तत्रापि द्वयी विमतिः। कैश्चित् प्रेषणात्मकत्वं शब्दस्याभ्युपगतं, लिङादिशब्दैस्तथा तदवगमात् कार्यान्तरानवगमाद् भावार्थमात्रकार्यत्वपक्षस्य चातिदौर्बल्याद्विधिरेवानुष्ठेय इत्यर्थात् तस्य कार्यत्वम् । अन्यैस्तु कार्यत्वेन नियोगप्रतीतेरर्थात् तस्य प्रेरकत्वमिति संश्रितम् । कार्यमवगतं स्वसिद्धये पुरुषं नियुक्त, ममेदं कार्यमित्यवगते हि तत्सिद्धये पुरुषः प्रवर्तते इति । .. अन्ये पुनः अभिनवं वाक्यार्थमुद्योगं नाम वर्णयांबभूवुरित्यनेकशाखा विप्रतिपत्तिः । तदत्र कि तत्त्वमिति ।
SR No.005498
Book TitleNyayamanjari Ahanika 04 05
Original Sutra AuthorN/A
AuthorJayant Bhatt, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages332
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy