SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०६ અથવાદવાક્યો ઉપર અપ્રામાણ્યને આક્ષેપ [ते०सं० २.१.१], 'देवा वै देवजयनमध्यवसाय दिशो न प्राजानन्' [ तै० सं० ६.१.५] इत्येवमादीनामर्थवादानां किं यथाश्रुतवस्तुपरत्वमुत तेभ्यः कार्यरूपार्थोपदेशपरिकल्पनम् उत लिङादियुक्तवाक्यान्तरप्रतिपाद्यमानकार्यरूपार्थापयिकत्वमिति चिन्त्यम् । सर्वथा च प्रमादः । 205. શંકાકાર—તર્કશાસ્ત્રમાં નિપુણ હોવા છતાં આપે હજુ પણ વેદના પિતાન દેહમાંથી ઉદ્ભવતા બધા દેને દૂર કર્યા નથી. તે દર્શાવીએ છીએ. તેણે (=સ) રુદન કર્યું'. તેણે રન કર્યું એટલે જ અમાં અવ આવ્યું”, “પ્રજાપતિએ પોતાના માંસને કાપી બહાર કાઢયું, પછી તેને અગ્નિમાં હેમ્યું, તેના પરિણામે તેમાંથી શિંગડા વિનાને અજ (બકરો) ઉપર આવ્ય, દેવો દેવયજનને યજ્ઞસ્થાનને નિશ્ચિતપણે જાણ્યા પછી દિશાઓ ભૂલી ગયા’ વગેરે અર્થવાદે શબ્દશઃ સાચા છે (અર્થાત્ વસ્તુ જે વર્ણવવામાં આવી છે તેવી જ છે એમ જણાવનારા છે) ૨, કે તેમના દ્વારા કમરૂપ અર્થના ઉપદેશની (=વિધિની) કલ્પના થાય છે ?, કે લિંગ વગેરેથી યુક્ત અન્ય વાક્ય દ્વારા પ્રતિપાદિત કર્મ રૂપ અર્થના ઉપાયભૂત છે ? -मे वियान मे. ची रीत वियात ५ . [reणय] छे. ____ 205. स्वरूपपरत्वे तावत् प्रमाणान्तरविरुद्धार्थोपदेशादप्रामाण्यमेवावतरति, रोदनवपोखेदनदिङ्मोहादेरर्थस्य तथात्वे निश्चयाभावात् । किञ्च 'स्तेनं मनोऽनृतवादिनी वाक्' इत्येवंजातीयकानामर्थवादवाक्यानां विस्पष्टमेव प्रमाणान्तरविरुद्धार्थप्रतिपादकत्वम् । न हि निसर्गत एव सर्वप्राणिनामन तवादिनी वाग्भवति, स्तेनं वा मनः । . अपि च 'धूम एवाग्नेर्दिवा ददृशे नार्चिस्तस्मादर्चिरेवाऽग्नेर्नक्तं दृश्यते, न धूमः' [तै० ब्रा० २.१.२] इति प्रत्यक्षविरुद्धमिदमभिधीयते, नक्तं दिनं द्वयोरपि इन्द्रियार्थसन्निकर्षे सति ग्रहणात् । किञ्च ‘एतन्न विद्मो यदि ब्राह्मणाः स्मोऽब्राह्मणा वा' इति [गो० ब्रा० ५.२ १] ब्राह्मणजातेरुपदेशसहायप्रत्यक्षगम्यत्वात् तद्विरुद्ध एषोऽर्थवादः । शास्त्रविरोधोऽप्यस्ति 'को ह वै तद्वेद यदमुष्मिल्लोकेऽस्ति वा न वा' इति [तै० सं० ६.१.१] । शास्त्रे स्वर्गादिफलानां ज्योतिष्टोमादिकर्मणामुपदेशात् केयमनवक्लप्तिः । अपि च गर्गत्रिरात्रब्राह्मणमधिकृत्य श्रूयते 'शोभतेऽस्य मुखं य एवं वेद' इति [तां० ब्रा० २०.१६.६] । न हि कस्यचिदेवं विदतो मुखं शोभते इति प्रत्यक्षविरोधः । अन्यकर्मानर्थक्यशंसी च कश्चिदर्थवादो भवति पूर्णाहुत्या सर्वान् कामानवाप्नोति' 'पशुबन्धयाजी सर्वान् लोकानभिजयति' 'तरति मृत्यु तरति पाप्मानं सरति ब्रह्महत्यां योऽश्वमेधेन यजते यश्चैवं वेद' इति । यदि पूर्णाहुत्यैव सर्यकामावाप्तिः, पशुबन्धयागेनैव सर्वलोकजयः,अश्वमेधवेदनेनैव तत्फलावाप्तिः,तत्किमर्थमन्यकर्मोपदेशः ? उपदिष्टान्यपि तानि बहुक्लेशसाध्यानि कर्माणि व्यर्थानि भवेयुः, अनेनैव
SR No.005498
Book TitleNyayamanjari Ahanika 04 05
Original Sutra AuthorN/A
AuthorJayant Bhatt, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages332
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy