________________
१. ११. ]
विपर्ययनिरूपणम् । शुक्तिसाध्यायास्तस्या भावात् । द्वितीये तु ज्ञानकाले सा नास्ति, कालान्तरऽपि वा ! ज्ञानकाले तावत् तथ्यकलधौतबोधेऽपि वापि सा नास्त्येव । कालान्तर तु प्रचुरतरसमीरसमारणाशुव्यपायिपयोवुवुदवोधेऽपि सा न विद्यत एव । तन्नार्थक्रियेत्यादिपक्षः क्षेमकारः ।
तत्पुरस्सरपक्षे तु, तथाविधवैपरीत्यं तस्य स्वेनैव, पूर्वज्ञानेन, उत्तरज्ञानेन वाऽवसीयेत :। न स्वनैव, तेन स्वस्य वैपरीत्यावसाये प्रमातुः प्रवृत्त्यभावप्रसङ्गात् । अथ पूर्वज्ञानेन; किं स्वकालस्थेन, तत्कालस्थेन वा ? नाघेन, तत्काले वैपरीत्यास्पदसंवेदनस्यासत्त्वात् । नापि द्वितीयेन, ज्ञानयोगपद्यासंभवात् ।। __अथोत्तरज्ञानेन, तत्किं विजातीयम् . सजातीयं वा स्यात् : विजातीयमप्येकसन्तानम्, भिन्नसन्तानं वा : भेदद्वयेऽपि घटज्ञानं पटज्ञानस्य वैपरीत्यावसायि भवेत् । सजातीयमप्येकविषयम्, भिन्नविषयं वा ! एकविषयग येकसन्तानम् , भिन्नसन्तान वा ? द्वय मपीदं संवाददत्तहस्ताव सम्बं कथं वैपरीत्याववोधथुराधौरेयतां दधीत ! भिन्नविषयमप्येकसन्तानम्, भिन्नसन्तानं वा ! उभयत्रापि पटज्ञान पटान्तरज्ञानस्य तथा भवेत् ।
अथ न सर्वमेवोत्तरज्ञानं प्राक्तनस्याऽन्यथात्वावबोधवद्धकक्षम् , किन्तु यदेव बाधकत्वेनोल्लसति । ननु किमिदं तस्य तवाधकत्वम्-तदन्यत्वम् , तदुपमर्दकत्वम् , तस्य स्वविपये प्रवर्तमानस्य प्रतिहन्तृत्वम् , प्रवृत्तस्यापि फलोत्पादप्रतिबन्धकत्वं वा ! प्राचि पक्षे, मिथ्याज्ञानमपि तस्य वाधकं स्यात्, अन्यत्वस्योभयत्राऽविशेषात् । द्वितीये घटज्ञानं पटज्ञानस्य वाधकं स्यात् । तस्यापि तदुपमर्दैनोत्पादात् । तृतीये, न प्रवृत्तिरतस्य तेन प्रतिहन्तुं शक्या, यत्र क्वचन गोचरे प्रागेव प्रवृत्तत्वात् । तुरीयेऽपि, न फलोत्पत्तिस्तस्य तेन प्रतियन्धुं पार्यत, उपादानादिसंविदोऽपि प्रथममेव समुत्पन्नत्वात् ।
किंञ्च, विपरीतप्रत्यये रजतमसच्चकास्ति, सद् वा ! असच्चेत् । असत्ख्यातिरेवेयं स्यात् । सच्चेत् । तत्रैव, अन्यत्र वा ! यदि तत्रैव, तदा तथ्यपदार्थख्यातिरवेयं भवेत् । अन्यत्र तु सतः कथं तत्र प्रतीतिः, पुरस्सरगोचर एव चक्षुरादेर्व्यापारात् ! दोपमाहात्म्यादिति चेत् । न, दोपाणामिन्द्रियसामर्थ्यकदर्थनमात्रचरितार्थत्वेन विपरीतकार्योत्पत्ति प्रत्यकिञ्चित्करत्वात् । ततस्तथा विचार्यमाणस्य तस्यानुपपद्यमानःवमसिथ्यदेव ।
नापि व्यभिचारि, विपक्षादत्यन्त व्यावृत्तेः । अत एव न विरुद्धमपि । ततः सत्यमेवैतत् संवेदनद्वयम्--इदमिति प्रत्यक्षम् , रजतमिति तु स्मरणम् । करगोद्भवदोप वशाच्छुक्तिरजतयोः प्रत्यक्षस्मरणयोश्च भेदाप्रतिभासाद् भेदाख्यातिरियमुच्यत इति ।।
તેનું ઉદાહરણ– યથા છીપમાં “આ રજત-ચાંદી છે? એવુ જ્ઞાન થવું તે. ૧૧.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org