________________
१. ७. ]
प्रमाणलक्षणम् ।
(प० न चेदं न सिपेध साधनमिति । नासिद्धम् । गन्धर्वविकल्पदशायामिति अश्वविकल्पावस्थायाम् । क्षणिकत्वादिवदिति क्षणिकत्वादाविव । सप्तम्यर्थे वत् । यथा क्षणिकत्वादिविषयेनिर्विकल्पकत्वात् ज्ञानं न संस्कारं जनयति एवं गोविषयेऽपि न जनयेदित्यर्थः ।
__ (टि.) अथ यन्नेत्यादि । प्रत्यक्षेण पक्षांशस्य वाधेऽसिद्धे परोक्तं तद्बाधकानुमानमाशशङ्कय परिहरत्याचार्यः । अनुमानं चेदम्-प्रत्यक्ष निर्विकल्पक म्-व्यवसायवन्ध्यमित्यर्थः, विकल्पैः सहोत्पद्यमानत्वात् ततो यन्निर्विकल्पकमित्यादि व्यतिरेकव्याप्तिः । यदिति प्रत्यक्षं निर्विकल्पम् , विकल्पेण सहोत्पादात् । इदमिति विकल्पेन सहोत्पद्यमानत्वादित्यादि लक्षणम् । न सिपेति असिद्धमिति' । गधर्वेति तुरगः । साक्षात्करणादिति निर्विकल्पकप्रत्यक्षेण निष्टकनात् । अन्यथेत्ति साक्षात्करणव्यतिरेके । तत्स्मरणेति गोस्मृत्यनुत्पादप्रसक्तः । क्षणिकत्वेति क्षणिकत्वादाविव सप्तम्यर्थे वति-यथा क्षणिकत्वादिविषये निर्विकल्पकत्वाद् ज्ञानं न संस्कारं जनयति एवं गोविपयपि न जनयेदित्यर्थः ।
अथाभ्यासप्रकरणबुद्धिपाटवार्थित्वेभ्यो निर्विकल्पकादपि प्रत्यक्षाद् गंवादं. संस्कारः स्मरणं च समगस्त, न तु क्षणक्षयादौ, तदभावादिति चेत् । तदप्यपीयः, भूयोदर्शनलक्षणस्याभ्यासस्य क्षणक्षयादावक्षोदीयसः सद्भावात् । पुनः पुनर्विकल्पो. पादरूपस्य चाभ्यासस्य परं प्रत्यसिद्ध वात् , तत्रैव विवादात् । क्षणभिदेलिमभावाभिधानवेलायां क्षणिकप्रकरणस्थापि भावात् । बुद्धिपाटवस्थ क्षणिक बादौ नीलादौ च समानत्वात्, त प्रत्यक्षस्य निरंशत्वेन कक्षीकारात् , अन्यथा विरुद्धधर्माध्यासन तस्य भेदापत्तेः । अर्थित्वस्यापि जिज्ञासितत्वलाक्षणस्य क्षणिकवादिनः क्षणिकत्वे सुतरां सद्भावाद् · नीलादिवत् । अभिलपितत्वरूपस्य तु तस्य व्यवसायजननं प्रत्यनिमित्तत्वात् . अनभिलपितेऽपि वस्तुनि कस्यापि व्यवसायसंभवात् । ततो नाऽनंशवस्तुवादिनः क्वचिदेव स्मरणं समगत । तथा च--यद व्यवसायशून्य ज्ञानं न तत् स्मृतिहेतुः । यथा क्षणिकत्वादिदर्शनम् । तथा चाऽश्वविकल्पकाले गोदर्शनमिति प्रसङ्गः । तथा च तत्स्मृतिहेतुर्न स्याद् । भवति च पुनर्विक पयतस्तदनुस्मरणम् । तस्मात् तद् व्यवसायात्मकमिति प्रसङ्गविपर्ययः । एवं च स्मरणात् तस्य व्यवसा. यात्मकस्यैव सिद्धेर्यवसायस्य च व्यवसायान्तरण समानकालत्वाभावाद विक पेनापि सहोत्पद्यमानत्वादिति हेतुरसिद्रिवन्धकीसम्बन्धबाधित इति सिद्धम् । ,
બૌદ્ધ અભ્યાસ, પ્રકરણ, બુદ્ધિની પટુતા, અને અર્થિત્વ જેવાં કારણના સહકારને લઈને નિર્વિકપક પ્રત્યક્ષથી પણ ગવાદિ પદાર્થ વિષે સંસકાર અને કમરણ અંગત થઈ શકે છે, પરંતુ ક્ષણક્ષયાદિના પ્રત્યક્ષમાં અભ્યાસાદિક સહકારી કારણે ન હોવાથી સંસ્કાર કે કમરણને અવકાશ મળતું નથી. १ मिति न मु । २ नीलादी मुपा।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org