________________
[१.. ७.
प्रमाणं व्यवसायात्मकम् ।
'स्वविषयानन्तरविषयसहकारिणा इन्द्रियज्ञानेन समनन्तरप्रत्ययजनितं मनोविज्ञानम्' । प्रत्यक्षमिति स्वसंवेदनम् । आस्कन्देदिति यथास्वरूपे । अस्येति विकल्पस्य । तत्रैवेति विकल्पे एव ।
(टि. ) अत्रैकदेशेनेत्यादि । नीलादीति निर्विकल्पकप्रत्यक्षस्य । पक्षीकृतेति पक्षो ज्ञानं प्रत्यक्षपरोक्षरूपम् , तस्यैकदेशस्य प्रत्यक्षस्य । तादृक्षस्येति व्यवसायवन्ध्यम्य । तस्येति नीलादिदर्शनस्य । तति निर्विकल्पकप्रत्यक्षे । इन्द्रियेति न होन्द्रियाणां घटादिवत्प्रत्यक्षं भवति । तस्येति मानसस्य ।
ऐन्द्रियेण परिछिन्ने रूपादौ तदनन्तरं । यद्रूपादि ततस्तत्र मनोज्ञानं प्रवर्तते ।'
नापि तुर्येणेत्यादि । तदिति स्वसंवेदनम् । अनुरूपेति निर्विकल्पकमिदमिति । आये पक्ष इति । प्रत्यक्षं स्वरूपं दर्शयत् क्षणक्षयं ज्ञापयेत् । तदाकारोपदर्शनमात्रेण प्रामाण्ये क्षणिकत्वेपि तस्य प्रामाण्यप्रसक्तिः । यदि प्रत्यक्षं स्वरूपमुपदर्शयत् प्रमाणं तदा मया क्षणक्षयिणः परमाणवो गृहीता इत्यस्याप्यात्मस्वरूपोपदर्शनं प्रमाणतां गच्छेत् । तथा च क्षणिकत्वानुमाने वैफल्यं च स्यात् । तथाहि यथा दानपरिणामचित्तानुभवः स्वसंवेदनाध्यक्षलक्षणस्तद्गतं सद्दव्यचेतनादिकं विषयीकरोति तथा स्वर्गप्रापणसामर्थ्यमपि तत्स्वरूपाव्यतिरिक्तत्वाद् विषयीकुर्यादिति भावार्थः । क्षणक्षयज्ञानात् स्वर्गप्राप्तिः स्याज्जन्तोः
"क्षणिकाः सर्वसंस्काराः इत्येवं वासना यका । स मार्ग इह विज्ञेयः" इति वचनात् । बौद्धानां मतेऽध्यक्षेण क्षणो गृह्यते न तु तत्क्षयो वस्तुनो निरंशत्वेनाभिन्नौपि । न च यन्निरंशवस्तुप्रभवं ज्ञानं तन्निरंशग्राहि । प्रत्यक्षप्रभवविकल्पस्य तद्भावानुपपत्ती वा हिंसा. विरतिदानचित्तस्वसंवेदनाध्यक्षप्रभवनिर्णयेन तद्महणोपपत्तेनिश्चयविषयीकृतस्य चानिश्चितरूपान्तरा. भावात् । स्वर्गप्रापणसामार्थ्यादेरपि तद्गतस्य निश्चयात्तत्र विप्रतिपत्तिः-'न स्वर्गों नापि तत्प्राप्तिहेतुः कश्चिद्भावः' इत्यादिरूपा चार्वाकादेनं स्यात् । किन्तु स्वर्गप्रापणसामर्थ्यस्य दानचित्तादमेदात् वस्तु.. स्वरूपप्राहिणा च स्वसंवेदनाध्यक्षेणानुभवे सद्गन्यचेतनत्वादाविव विवादाभावो भवेदिति । क्षण. क्षयस्वर्गप्रापणेत्यादि । बौद्धमते हि नोलाद्यर्थप्रत्य, नीलाद्यर्थमिव तद्गतं.क्षणक्षयमपि विषयी. करोति । परं नीलाद्यर्थविषये तत्प्रत्यक्ष अनुस्पविकल्पोत्पादकत्वान् बौद्धः प्रमाणमिप्यते क्षणक्षये तु न तत् प्रमाणमनुरूपविकल्पोत्पादकत्वाभावात् । “यत्रैव देनां तत्रैवास्य प्रमाणता' इति वचनात् । यत्रैव विषये एना कल्पनां जनयेत्तत्रैव विषयेऽस्य प्रत्यक्षस्य प्रामाण्यमित्यर्थः ।
तथा स्वसंवेदनप्रत्यक्षं बौद्धमते स्वगतं क्षणक्षयं सत्वचेतनत्यादि च विषयीकुर्वदनुरूपविकल्पो. त्पादकत्वात्सत्वादिविषये प्रमाणं प्रतिपाद्यते, क्षणक्षयविषये त्याप्रमाणम् , तदनुसारिविकल्पाजनकत्वात् । तथा हिंसाविरतिचित्तं दानचित्तं च स्वर्गहेतुत्वादिमा स्वर्गप्रापणसामाशुपेतं बौद्धा मन्यन्ते । तच्च । हिंसाविरतिदानचित्तस्वसंवेदनप्रत्यक्ष स्वगतसच्चेतनत्वादिकमिव स्वगतस्वर्गप्रापणसामादिकमपि गृह्णाति, गृहीतस्य हि स्वस्वरूपस्य निरंशत्वेनागृहीतरूपान्तराभावात् । बौद्धस्तत्स्वसंवेदनप्रत्यक्षं सच्चेतनत्यादौ प्रमाणं मन्यते, स्वर्गप्रापणसामर्थ्यादिविषये स्वप्रमाणम् , तद्विषये विकल्पाजननात् । एवं च सति हि यदि स्वरूपोपदर्शनादेव प्रमाणमिष्यते तदा क्षणक्षयविषयेपि स्वर्गप्रापणसामार्थ्यादिविषयेपि च तत् प्रमाणं भवेत् , स्वरूपोपदर्शनमात्रस्य तत्रापि सद्भावात् । न च बौद्धैः क्षणक्षयादिविपये तत् प्रमाणमिष्यते । ततः स्वरूपोपदर्शनादेवेति पक्षोऽपि न युक्त इति भावः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org