________________
२१
.. १. १.]
शब्दार्थसंबन्धविचारः । वेति वाच्य-वाचकाभ्यामप्यन्यतोऽपि । पदार्थप्रतीतिः स्यादिति वाच्यवाचकसम्बन्धस्य प्रतीतिभवेत् । तदाधारधर्मस्येति तौ वाच्य-वाचकावाधारो यस्येति विग्रहः ॥
(टी.) यतोऽसाविति सम्बन्धः शब्दार्थयोः। स्वभाव इति अभिन्नः । तदतिरिक्तो वेति भिन्नो वा। असाविति सम्बन्धः । अन्यथेति सम्बन्धिनोनित्यतायाम्। तत्सम्बधीति तो च सम्बन्धिनौ च तत्सम्बन्धिनी, तत्सम्बन्धिभ्यां यः सम्बद्धः [संबन्ध ] स्वभावः तत्प्रच्यवनात्तस्य भ्रंशात् । अथ च तैः सम्बन्धिभिः सह यः सम्बद्धसम्बन्धस्वभावः तस्य पतनात् । असाविति सम्बन्धः । तत्रेति पदार्थे । भेदपक्षेति तावत्तादात्म्यमभिन्नभिदङ्गीकारे आघटीति, न भिन्नपक्षे, सर्वथाभिन्नत्वात् , नालिकेरकपित्थवत् । अत्रापि प्राज्ञेन भिन्नप्रकारस्वीकारपरेण वरीवय॑ते । तार्तीयीकेति युगपदुभयोरुत्पत्तिकालस्वोकारात् क्रमोत्पत्तिविरोधः । असाविति सम्बन्धः । अन्यत इति सङ्केतात् । अन्यतोऽपीति सङ्केतात् । अपिशब्दाद्वाच्यवाचकाभ्यामपि सकाशात् । अनाकलितेति नालिकेरद्वीपवासो नालिकेरमन्तरेण घटादिपदार्थसार्थ न मनुते, व्यवहारबाह्यत्वात्तस्य । तदानीमिति तस्य वाच्यस्य दर्शन एव तस्येति सम्पन्धस्य ।
(टितदाधारस्येति वाच्यवाचकाधारस्य धर्मस्येति सम्बन्धस्य । अन्यत इति सङ्केतात् ।
___ अथ सङ्केतसहकृताभ्यां वाच्यवाचकाभ्यामेप जायते इत्यर्थवानन्यतोऽपीति तृतीयः पक्षः कक्षीक्रियते । नन्वसौ सङ्केतः प्रतीते वस्तुनि विधीयेत, अप्रतीते वा ? न तावदप्रतीते, अतिप्रसङ्गसङ्गतेः । नापि प्रतीते, यतस्तक्षणिकत्वेन तदानीमेव खरसमीरस रिताम्भोधर बसमध्वंसिष्ट इति कुत्र सङ्केतः क्रियेत : अथ तत्समानजातीयअणपरम्पर या विद्यमानत्वात् कथं न सङ्केतगोचरता तस्य ! तदसत् । न खच्च-. प्रतीतं विद्यमानमपि शब्दगोचरीभूयमुपनेतुं शक्यम् , अतिप्रसक्तेः । यच्च प्रथमं प्रतीतम्. तत् तद नीमेव व्यतीतम् । एवं शब्दोऽपि गवादिः प्रतीतोऽप्रतीतो वा तत्र संङ्केत्येत इति प्राग्गोपाः । सङ्केताभावे च कथं वाच्यवाचकभावोत्पादः ! स्तां वा ते शब्दार्थव्यक्ती क्षगिकत्वपराङ्मुखे, उत्पादयतां च सङ्केतसहकृतं वाच्यवाचकभावम् , किन्तु न ते एव व्यवहारकालमनुगच्छतः- इत्यर्थान्तरे शब्दान्त च वाच्यवाचकभावोत्पत्तये सङ्केतान्तरं कती। तथा च व्यवहाराभाव एव भवेत् , प्रतिवाच्यवाचकविशेष सङ्केतकर्तुरवस्वभावाभावार।
સંકેતના સહકારથી વાચ્ય અને વાચક વાચવાચકભાવ સંબંધને ઉત્પન્ન કરે છે એવા અર્થવાળો ત્રીજો પક્ષ સ્વીકારે તો-તમને પૂછીએ છીએ કે–આ સંકેત પ્રસિદ્ધ વસ્તુમાં કરાય છે ? કે અપ્રસિદ્ધ વસ્તુમાં ? અપ્રસિદ્ધમાં તે અતિપ્રસંગ હોઈ સંકેત થશે નહીં. અર્થાતું દેશ અને કાલથી વ્યવહિત એવા અપ્રસિદ્ધ પદાર્થમાં પણ સંકેતને પ્રસંગ આવતો હોઈ તેમ માનવું ઉચિત નથી.
१ धारस्य धर्मस्य इति टिप्पणसम्मतः मूलपाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org