________________
आदिवाक्योपन्यासः।
[१. १. ६३ अत्र धर्मात्तरानुसारी प्राह-प्रयोजनमादिवाक्येन साक्षादाख्यायत इति न क्षमे । यतः संबद्धमसंबद्धं वा तत् तदभिदधीत ? यद्यसंबद्धमेव; तदाऽऽदिवाक्यादेव समस्तशास्त्रार्थसंदर्भग विर्भावसंभवात् किं प्रकृतशास्त्रोपक्रमलेशेन ? संबद्धं चेत् । तदसंबद्धम् , शब्दार्थयोः संबन्धासंभवात् । तथाहि-अयमनयोर्भवस्तादात्म्यम् , तदुत्पत्तिः, वाच्य-वाचकभावो वा भवेत् ?
६ उही पत्तिानुसारी गोद श ४२ छ–'प्रमाणनय' से माहवाश्यथा પ્રોજન સાક્ષાત્ કહેવાયું છે, એ તમારું કથન અમને સમ્મત નથી કારણ કે- અમે પૂછીએ છીએ કે- આદિવાક્ય પ્રયોજનની સાથે સામ્બદ્ધ થઈને પ્રજનનું અભિધાન કરે છે? કે અસંબદ્ધ રહીને પ્રજનનું અભિધાન કરે છે?
જે પ્રયોજન સાથે અસમ્બદ્ધ એવું આદિવાક્ય પ્રયજનને કહે છે, એમ કહે તે- આદિવાક્યથી જ સમસ્ત શાસના અર્થની રચનાનું રહસ્ય પ્રકટ થઈ જવાને સંભવ છે, તે પ્રકૃતિશાસ્ત્રના આરંભને કલેશ શા માટે ?
અને પ્રજન સાથે સંબદ્ધ આદિવાક્ય પ્રયજનને કહે છે, એમ કહો તે– તે કથન અસંગત છે, કારણ કે શબ્દ અને અર્થના સંબંધને સંભવ નથી, તે આ પ્રમાણે શબ્દ અને અર્થને સંબંધ હોય તો તે કયો છે? તાદામ્ય ? " તદુત્પત્તિ કે વાચ્યવાચકભાવ સંબંધ છે?
(प०) तत् तदभिदधीतेति तदादिवाक्यं कर्तृ तत्प्रयोजनं कर्म । आदिवाक्यादेवेति एतस्मादेव । अनयोरिति शब्दार्थयोः ।
(टि० ) अत्र धर्मोत्तरेत्यादि । तदिति आदिवाक्यम् । तदिति प्रयोजनम् । समस्त. शास्त्रेति लक्षणसाहित्यतर्कादि । तथ हीत्यादि । अयमिति सम्बन्धः, अनयोरिति शब्दार्थयोः ।
प्राचीनपक्षे स एवात्मा यस्येति विग्रहे-किं तच्छब्दस्य शः एव, तदर्थो वा वाच्यतया त्वच्चित्ते चकास्यात् ! यदि शब्दः, तर्हि समस्ता अन्याः स्वस्ववाचकस्वभावा बभूवांसः - इति युगपदशेषाणां तेषां निःशेपकालं यावद् गुमगुमायमानताऽऽपत्तेः - अयत्नोपनतपणववेणुवीणामृदङ्गसङ्गिसङ्गीतकारम्भनिभृतमिव त्रिभुवनं भवेत् । अथ तदर्थः; तर्हि तुरग-तरङ्ग-शृङ्गार-भृङ्गारादिशब्दोच्चारणे चूरण-प्लावन-संभोग-घटनादिप्रसक्तिः । किञ्च, अतीतानागतवर्धमान-पद्मनाभादिकल्पितकथादिवचसामुच्चारणमचतुरस्रं स्यात् । न हि वृक्षात्मा शिशपा तमन्तरेणापि कापि संपद्यते । तथात्वे हि स्वस्वरूपमेवासौ जह्यात् , कुम्भ-स्तम्भाम्भोरुहादिवत् । प्रत्यक्षमपि पैतयोस्तादात्म्यं न क्षमते। कर्णकोटरकुटुम्बी खल्वभिलापः प्रत्यक्षेण लक्ष्यते, क्षितितलावलम्बी तु कलश-कुलिशादिवराशिः- इति कथमनयोरैक्यं शक्येत वक्तुम् ! तन्न तादात्म्यपक्षोपक्षेपः सूक्ष्मः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org