________________
२३४
स्याद्वादरत्नाकरम्य नवविशेषणानां समासाः । शाद्वलासन्नकानननिकुञ्जाः, अतुलफल ........ परिच्छेद सन्दोह एव शाहलासन्नकानननिकुञ्जाः (11 इव) यस्मिन् वा सः-अतुटफलभरभ्राजिष्णुभूयिष्ठागमाभिरामातुच्छपरिच्छेद सन्दोहशालासन्नकानननिकुञ्जः, तस्मिन् । - वि.४ (१) निर्गता उपमा यस्याः सा, उपमायाः निष्क्रान्ता वा निरुपमा, निरुपमा च सा मनीषा=निरुपममनीषा, महच्च तद् यानपात्रं च महायानपात्रम्, महायानपात्रस्य व्यापारः महायानपात्रव्यापारः, निरुपममनीपया महायानपात्रत्र्यापारे परायणाश्च ते पुरुषाश्च-(निरुपममनीपा एव महायानपात्रम्=निरुपममनीपामहायानपात्रम्, तेन व्यापारे परायणाश्च ते पुरुषाश्च वा) निरुपममनीपामहायानपात्रव्यापारपरायणपुरुषाः, पूर्व प्राप्तानि प्राप्तपूर्वाणि, न प्रासपूर्वाणि-अप्राप्तपूर्वाणि, अप्राप्तपूर्वाणि च तानि रत्नानि अप्राप्तवरत्नानि, तपां विशंपा:-अप्राप्तपूर्वरत्नविशेषाः, निरुपममनीषा........परायणपुरुषैः प्राप्यमाणाः अप्राप्तपूर्वरत्नविशेषाः यस्मिन् सः निरुपममनीपामहायानपात्रव्यापारपरायणपुरुपप्राप्यमाणाऽप्राप्तपूर्वरत्नविशेषः तस्मिन् ।
(२) निरुपमनीपामहायानपात्रत्र्यापारपरायणपुरुपैः इव तार्किकपुरुपैः प्राप्यमाणाऽप्राप्तपूर्वरत्नविशेपे ।
वि० ५ वचनानां रचनाः वचनरचनाः, न अवद्यानि अनवद्यानि, वचनरचनया अनवद्यानि च तानि गद्यानि वचनरचनाऽनवद्यगद्यानि तेषां परम्पराः वचनरचनाऽनवधगयपरम्पराः, प्रवालानां जालानि वालजालानि, वचनरचनाऽनवद्यगद्यपरम्परा एव प्रवालजालानि (II इव ) वचनरचनाऽनवद्यगद्यपरम्पराप्रवालजालानि, तैः जटिलः वचनरचनाऽनवद्यगद्यपरम्पराप्रवालजालजटिलः, तस्मिन् ।
वि० ६ श्लोका एव मौक्तिकानि (II इव)- लोकमौक्तिकानि, न स्तोकानि अस्तोकानि, अतिशयेन कुमाराणि सुकुमाराणि अत एव कान्तानि च आलोकनीयानि च सुकुमारकान्तालोकनीयानि, सुकुमारकान्तालोकनीयानि च अस्तोकानिच तानि -लोकमौक्तिकानि सुकुमारकान्तालोकनीयाऽस्तोक लोकमौक्तिकानि, तेषां प्रकराः-सुकुमारकान्तालोकनीयाऽस्तोकश्लोकमौक्तिकप्रकराः, तैः करम्बितः सुकुमारकान्तालोकनीयाऽस्तोक लोकमौक्तिकप्रकरकरम्बितः, तस्मिन् ।
वि०७ अमति-गच्छति धर्मिणमिति अन्तो धर्मः, न एकः-अनेकः, अनेके अनेका वा अन्ताश्च ते अनेकान्ताः, अनेकान्ता यस्य स अनेकान्तः, अनेकान्तश्वासी वादश्च अनेकान्तवादः, न अल्पे (अल्पाः) अनपे (ल्पाः) अनेकान्तवा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org