________________
स्याद्वादरत्नाकरविशेषणानां समासाः। वि० १ अतिशयेन क्षुद्राः ["गुणाङ्गाद् वेष्टेयसू' ७-३-९ हैम । “स्थूल-दूर-युवहस्वक्षिप्र-क्षुद्रस्यान्तस्थाऽऽदेर्गुणश्च नामिनः" ७-४-४२ हैम) क्षोदीयांसः, न क्षोदीयांसः अक्षोदीयांसः, लत्यमाणाश्च ते अक्षोदीयांसश्च, अथवा लक्ष्यमाणा अत एव अक्षोदीयांसश्च ते अर्थाश्च लक्ष्यमाणाक्षोदायोऽर्थाः, न भूणानि-अक्षुणानि लक्ष्यमाणाक्षोदीयोऽर्थः अषणानि च तानि अक्षराणि च अथवा लक्ष्यमाणाक्षोदीयोऽश्चि अजूणाक्षराणि च लक्ष्यमाणाक्षोदीयोऽक्षराणि, तानि एव क्षीरम् अथवा तानि क्षीरमिव लक्ष्यमाणाक्षोदीयोऽाक्षुणाक्षरक्षीरम् , तेन निरन्तरम्-तस्मिन् ।
वि० २ महती च मुद्रा च महामुद्रा, स्याद्वादस्य महामुद्रा-स्याद्वादमहामुद्रा, स्याद्वादमहामुद्रया मुदितानि-स्याद्वादमहामुद्रामुद्रितानि, नास्ति निद्रा येषां तानि-- अनिद्राणि, दृश्यमानानि च स्याद्वादमहामुद्रामुहितानि च अनिद्राणि च तानि प्रमेयाणि च-दृश्यमानस्याद्वादमहामुद्रामुद्रितानिद्रप्रमेयाणि, तेषां सहस्रम्-दृश्यमानस्याद्वादमहामुदामुद्रितानिद्रप्रमेयसहस्रम्, उत्तुङ्गाश्च तङ्गन्तश्च तरङ्गाश्च ते उत्तुङ्गतङ्गत्तरङ्गाः, दृश्यमानस्याद्वादमुद्रामुद्रितानिद्रप्रमेयसहस्रमेव उत्तुङ्गतुङ्गत्तरङ्गाः दृश्यमानस्याद्वादमहामुद्रामुद्रितानिद्रप्रमेयसहस्रोत्तुङ्गतङ्गत्तरङ्गाः, तेषां भङ्गयः-दृश्यमान........ तरङ्गभङ्गयः, तासां सङ्गः= दृश्यमानः........ तरङ्गभङ्गिसङ्गः, सौभाग्यस्य भाजनम् सौभाग्यभाजनम् . दृश्यमान.... ....सङ्गेन सोभाग्यभाजनम् =दृश्यमानस्याद्वादमुद्रामुहितानिद्रप्रमेयसहस्रोत्तुङ्गतङ्गत्तरङ्गभङ्गिसङ्गसौभाग्यभाजनम्, तस्मिन् ।
वि० ३ नास्ति तुला यस्य-अतुलम् , अतुलानां फलानां भरः अतुलफलभरः, तेन भ्राजिष्णवश्च ["भ्राजिअन्लङ्घनिराकर........:'" ५-२-२८ हम भूयिष्ठाश्च ते ["वहोष्ठि भृय" [७-४-४० हेम) आगमाश्च-अतुलफल भरभ्राजिष्णुभूयिष्टागमाः, तैः अभिरामाः-अतुलफलभरभ्राजिष्णुभूयिष्टागमाभिरामाः, न तुच्छाः अतुच्छाः, अतुच्छाश्च ते परिच्छेदाश्च=अतुच्छपरिच्छेदाः, अतुलफलभरभाजिष्णुभूयिष्ठागमाभिरामाश्च ते अतुच्छपरिच्छेदाश्च-अतुलफलभरभ्राजिष्णुभूयिष्टागमाभिरामातुच्छपरिच्छेदाः, तेषां सन्दोहः अतुलफलभरभ्राजिष्णुभूयिष्ठागमाभिरामातुच्छपरिच्छेदसन्दोहः, सन्दोह एव शादलः=मृदुनीलतृणसमूहयुक्तः प्रदेशः अस्मिन् स संदोहशाद्वलः । काननस्य निकुञाः कानननिकुञ्जाः, शालश्च आसन्नाश्च कानननिकुञाः=
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org