________________
२१४
केवलिनः कवलाहारसिद्धिः। . [२. २७ प्रतिपत्तौ। तस्येति विरोधस्य । तारतम्येति अधिकाधि कावबोधः । तस्येति सर्वज्ञत्वस्य उपाय .इति सम्बन्धः । इतरेपामिति सामान्य केव लिनां अस्मदादीनां वा ।
तदिति पात्रादि । समनन्तरेति पात्रादिना सह सर्वज्ञत्वस्य विरुद्धत्वे सति अस्मदादिज्ञानमपि पात्र दिना मह विरोधमविवसेत् । निहित्वेन तेपामिति भगवता तीर्थङ्कराणां सामान्य. केवलिनां वा । तति पत्रादौ । अनेनेति ममकारेण मोहेन वा । तद्भावेति ममकारभावप्रसक्तेः । उभयभावेऽपीति पात्रादिशरीरलक्षणद्वयसम्भवेऽपि । तदर्शनादिति ममकार विलोक नान्मोहनिरीक्षणाद्वा । औदारिकेत्यादि । तेनेति सर्वज्ञत्वेन । अध्यूपिवत् इति अधिपूर्ववम् निवासे अध्युवास क्वन्मुकानों वम् प्रत्ययः स्वपिवचीत्यादिना सम्प्रसारणं द्विवचनम् , अर्तीणघसैक० इडन्तः, प्र. सि नका. सिलोपः, विरामव्यजनादावुक्त मिति देशवलादिति नलोपः । विरामव्यजना. सस्य दयं वा विरोमे तत्त्वम् । तदभावेति औदारिकशरीराभावप्राप्तेः ।
आभ्यन्तरमपि तत्कारणं दारीरन , कर्म वा? । न तावत् प्रथमं विरुध्यते, भुक्तिहेतोस्तैजसदारीरस्य सार्वश्येन सार्धं त्वयापि सत्त्वस्वीकारात् । कापि घाति, अघाति वा ? धाःयपि मोहरूपम् , इतरद् वा ! इतरदपि ज्ञानदर्शनावरणे, अन्तरायो वा ? नाद्यः, तयोज्ञानदर्शनावरणमात्रचरितार्थवेन तत्कारणत्वानुपपत्तेः । नापि द्वितीयः, अन्तरायविल्ट यस्यैव तत्कारणत्वात् , तस्य च साकल्येन केवलिनस्त्वयापि स्वीकारात् । मोहोऽपि वुमक्षालक्षणस्तत्कारणम् , सामान्येन वा ! प्रथमप्रकारे सर्वत्रापीयं तत्कारणम् , अस्मदादावेव वा ? प्राच्यः प्रमाणमुद्रादरिद्रः ।
अथ या चतनक्रिया सेच्छापूर्विकैव, यथासंप्रतिपन्ना, तथा च भुजिक्रियाइत्यस्ति प्रमाणम् । तथाहि-प्रथमं प्रमाता प्रमिणोति, तत इच्छति, अनन्तरं यतते, ततोऽपि करोतीति । नैवम् : सुतमतगृर्छितादिक्रियाभिर्यभिचारात् , स्ववशचेतनक्रियेति. सविशेषगहेतुपादानेऽपि केवलिगतगतिस्थितिनिपद्यादिक्रियाभिर्व्यभिचारात् । द्वितीये तु सिद्वसाध्याः स्मः, केवलिनि वेदनीयादिकारणिकाया भुक्तेः सिद्धत्वात् । न सामान्येनाऽपि मोहस्तःकारणम् , एवं हि गतिस्थितिनिपद्यादीनामपि स एव कारणं स्यात् । तथा च केवलिनि मोहाभावात् तासामप्यभावो भवेदिति कुतस्तीर्थप्रवृत्तिः स्यात् ।
अथ गत्यादिकमैव त कारणम् , न मोहः । तर्हि वेदनीयादिकमव कवलाहारकारणम् , न मोह इत्यपि प्रतिपद्यताम् । अथाधातिकर्म तत्कारणम्- किमाहारपर्यापिः नामकर्मभेदः, वेदनीयं वा ? । न द्वयमप्येतत् प्रत्येकं तथा युक्तम्. तथाविधाहारपर्यामिनामकमांदये वेदनीयोदय प्रबन्प्रचलदौदर्य चलनोपतप्यमानो हि पुमानाहारमाहारयति । एवं च समुदितं पुनरतद भवति तत्कारणम् . किन्तु न सार्वश्येन विरुध्यते. सर्वज्ञ त्वयाऽपि तदुपगमात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org