________________
२०४
ईश्वरस्य जगत्कर्तृत्वनिरासः । [२. २६ __न नामेति आचार्यवाक्यम् । तथेति अवयवित्वेन । अनुमेयेति भूभधरादि । तत्तुल्येति घटादि । तद्विरुद्धति आत्मादि । वृत्तितोपद्रव इति पक्षसपक्षविपक्षेषु विष्वपि वर्तमानोऽनका. न्तिकः-अनेकान्तिकत्वमित्यर्थः ।
(टि.) तत्राभिधीयते जैनैः । निमित्तेति कार्यत्वम् । व्याप्यमिति हेतुः। आलपितमिति अभिहितम् । तद् द्रव्येति तत् कार्यवं द्रव्यद्वारेण पोयद्वारेण[वा] ।
अवयवित्वेने ति अवयवित्वात् । इदमिति भूभुधरादि । तन्नित्यतेति पृथ्वीपर्वतादिसनातनत्वम् । नैतद्वत्ती( नैतद्धीमद्वृत्तीति ) नेतच्चतुरचेतश्चमत्कारकारि । अवयवेति अवयवैरारभ्यमाणत्वात्पर्वतादेः । यथा तन्तुभिः पटः क्रियते अवयवसमूहे वर्तमानत्वात्तस्य । यथा तन्तुषु पट इति वा । यथा किलाऽभूतपूर्व घटाद्यवयववृन्देन निर्वय॑ते तथा पर्वतादयो न, अनादिसिद्धत्वात् तेषाम्। अभूतपूर्वमविद्यमानम् । प्रतिवादिनी जैनस्य । यदि पुनरित्यादि । अवयवत्वेनेति अवयवसामान्येन वा अवयववृत्तित्वेन । दोलेति पक्षसपक्षविपक्षवृत्तित्वलक्षणानकान्तिकत्वम् । अत्र हेतौ।
अनेन दुर्भदेति दुष्टविकलोत्पादनेन ।
न नामेति अवयवी प्रसिद्ध एव । पुनरात्मापि । तथेति अवयवित्वेन । अनुमेयेति अनुमेयः पक्षः । तत्तुल्यः सपक्षः । तद्विरुद्धो विपक्षः । तत्र वृत्तित्वं पक्षसपक्षविपक्षवृत्तिलक्षणानकान्तिकत्वम् ।
ननु नरामराद्युत्पादनप्रत्यलधर्माधर्मोत्पाद्यानुभवायतनभूता तथाविधा तनुरेवोत्पद्यते, न पुनरात्मा लवमात्रतोऽपि, अनादिनिधनत्वेन । यदि पुनरात्माऽप्युत्पत्तिविपत्तिधर्मा भवति, तदानी भृतमात्रतत्त्ववादिमतापत्तिः, आत्मनः पूर्वोत्तरभवानुयायिनोऽभेदिनोऽनभ्युपेतत्वेनेति । तद् न बन्धुरम्, यतो यद्यात्मनोऽभिन्नरूपतैवाऽऽवेद्यते, तदान्यतरनरामरादिभववर्थवाऽयमपरिमेयात्मीयानुभवनीयतत्तद्भवपर्यायप्रबन्धानुभवनेन द्वितीयादिभवानुभववान् न भवितुमुपपद्यते. वेद्यते त्वनेनेय भवपर्यायपरम्परा; इति तद्रूपतयाऽयमुत्पत्तिमानिति नियम्यते । नाप्येवं भूतमात्रतत्त्ववादितापत्तिः, आत्मनो द्रव्यरूपतया नित्यताभ्युपायेन पूर्वोत्तरभवप्रीतितः । तन्मतेन तु न नाम द्रव्यतया नित्यं वेदनं वर्तते, यतो भूतधर्मतयाऽनेन प्रतिपादितमेतत् । तथैतदनुमानधर्मीन्द्रियोदभूतबोधेनाऽर्धतो बाध्यते, रूपं ध्वनिरपि नयनोत्थप्रथाप्रत्येयमित्यादिवत्, यतोऽत्र दोलायमानविधानतत्परनरव्यापार: पृथ्वीवीधराभ्रतरुपुरन्दरधनुरादि वत्रातो धर्मी प्ररूपितः, तत्र त्वभ्रतरुवियुदादेग्दिानीमप्युत्पद्यमानतया वेद्यमानतनोविधाता नोपलभ्यते ।
માયિક-મનુષ્ય અને દેવ વિગેરની ઉત્પત્તિમાં ધમધમે સમર્થ છે અને તમને જેને અનુભવ થાય છે તે તે મનુષ્ય દેવ આદિના આશ્રયભૂત શરીરની ઉત્પત્તિને જ અનુભવ થાય છે. આત્મા તે અંશ માત્રથી પણ ઉત્પન્ન થતું નથી કારણ કે તે અનાદિ અનંત-નિત્ય છે. વળી, આત્મા પણ ઉત્પત્તિધર્મ અને વિપત્તિધર્મવાળો હોય તે પૂર્વ અને આગામી ભવ(જન્મપરંપરા)માં
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org