________________
२. २१ ] तमसो भावरूपत्वम्
१८५ સમાધાન–તે યોગ્ય નથી, કારણ કે અન્યકારમાં અભાવ સ્વરૂપતા સિદ્ધ કર્યા વિના ભાવરૂપ મુખ્ય અર્થ બાધિત ન હોવાથી પૂર્વોક્ત ઘનતરાદિ વ્યવહારને ઔપચારિક કહી શકાય નહીં. અથવા અન્ધકારમાં ઘનતરાદિને વ્યવહાર ઔપચારિક માને તે પણ અન્ધકાર ભાવરૂપે જ સિદ્ધ થાય છે. કારણ કે ભાવને ભાવમાં ઉપચાર થાય છે પરંતુ અભાવમાં થતું નથી. જેમ કે-“છોકરો અગ્નિ છે. આ સ્થળે અનિરૂપ ભાવને છોકરારૂપ ભાવમાં ઉપચાર-આપ કરવામાં આવ્યો છે. પરંતુ અભાવમાં ઉપચારના કારણભૂત સાદક્યાદિને અભાવ છે. માટે કુંભાદિના અભાવમાં કોઈ વખત તથા પ્રકારને ઉપચાર થતો નથી. અર્થાત કુંભાભાવને કોઈ ઘનતરાદિ રૂપે કહેતું નથી.
(५०) वृथोन्मेपमिति वृयोन्मेषो यत्र तत्तथा । दमदमिकयेति औत्सुक्येन ।
तत्रेति अभावरूपे तमसि । तथात्वे इति औपचारिकत्वे । तथाप्रकारोपचारेति गये घनतरादयस्तथाप्रकारा उपचारा ज्ञेयाः। तत्रेत कुम्भाद्यभावे ।
(टि.) तत्प्रसाधके ते तमसो भावप्रसाधकस्य अनुमानस्य सम्भवात् ।
नैवमेतदित्यादि, पतदभावेति तिमिराभावरूपता । न हि तमसो वयमभावस्पतां प्रतिपद्यामहे । तस्येति तयादेशस्य घनतरादिरूपस्य । तथात्वेऽपीति व्यपदेशोपचारयोगेऽपि । न खल कुम्भादीति । भावस्य भाव उपचारो भवति, न त्वभावे, यथाग्निर्माणवकः । तथाप्रकारेति घनतरादिव्यपदेशप्रकारः । तत्रेति अभावे ।
तथा . नाभावरूपं तमः, प्रागभावाद्यस्वभावत्वाद्, व्योमवत् । न चायमपि हेतुरसिद्धः । तथाहि-आलोकस्य प्रागभावः, प्रध्वंसाभावः, इतरेतराभावः, अत्यन्ताभावो वा तमो भवेत् ? आये एकस्य, अनेकस्य वाऽयं तत् स्यात् ! न तावदेकस्यालोकस्य प्रागभावस्तमः, प्रदीपालोकेनेव प्रभाकरालोकेनापि तस्य निवर्त्यमानत्वात् । यस्य हि यः प्रागभावः स तेनैव निवर्यत, यथा पटप्रागभावः पटेनैव । नाप्यनेकस्य, एकेन निव
य॑मानत्वात्, पटप्रागभाववदेव । न च वाच्यम् - 'प्रत्यालोकं स्वस्वनिवर्तनीयस्य तमसो भेदात् प्रदीपादिना निवर्तितेऽपि तमोविशंपे पूषादिनिवर्तनीयं तमोऽन्तरं तदा तदभावाद् न निवर्तते- इत्येकेन निवर्थमानवादिति हेतुरसिद्धः'- इति, प्रदीपादिनिवर्तिततमसि प्रदेश दिनकरादिनिवर्तनीयस्य तमोऽन्तरस्योपलब्धिलक्षणप्राप्तस्याऽनुपलब्धेः, संप्रतिपन्नवत् । यदि चंदं प्रागभावस्वभावं स्यात्, तदा प्रदीपप्रभाप्रबन्धप्रध्वंसेऽस्योत्पत्तिन स्यात, अनादित्वात् प्रागभावस्य ।
नाप्यालोकस्य प्रध्वंसाभावस्तमः,निवर्त्यमानत्वात्, तस्यैव प्रागभाववत् ।
नापीतरेतराभावः, तस्य प्रसृतेऽपि प्रचण्डे मार्तण्डीये तेजसि सद्भावेन तमिस्रायामिव वासरेऽपि तमःप्रतीतिप्रसङ्गात् ।
नाप्यालोकस्याऽध्यन्ताभावस्तमः, तस्य स्वकारणकलापोपनिपातकले समुत्पद्यमानत्वात् । इति पक्षाऽटकेनाऽप्यघटमानत्वाद् नानुमानिक्यपि तमसोऽभावरूपतास्वीकृतिः।। २४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org