________________
२. २१ ]
तमसो भावरूपत्वम् ।
१७५
ग्वस्तसमाश्रितत्वमेवेति । आकाशसामान्यादीनि एतादृशि यानि वस्तूनि एतत्सदृशानि नित्यानि, तत् समाधितत्वम् । तत्तत्सहकारिकारणेति । न हि कीलकस्थितास्तन्तवः पटस्य कारणं भवन्ति । तत्स्वभावप्रभावप्रतिवद्धानां तत्तत्सहकारिकारणकलापस्वभावप्रभावप्रतिबद्धानाम् । समवायिकारणप्रत्यासन्नत्वमिति । समवायिकारण प्रत्यासन्नमवधृतसामर्थ्य ह्यसमवायिकारणम् ।
(टि.) समवायीत्यादि । त्रिधा कारणम्-यत्र हि कार्य समवेति तत्समवायिकारणं यथा द्वयणुकस्याणुद्वयम् , यच्च कार्यकार्थसमवेत कार्य कारणकार्थसमवेतं वा कार्यमुत्पादयति तदसमवायिकारणं यथा पटावयविदयारम्भे तन्तुसंयोगः, पटमनवेतरूपाद्यारम्भ पटोत्पादकतन्तुरूपादि च, शेषं नूत्पादकं निमि. त्तकारणं यथा पटाकाशादि । प्रतिषेधाभिधायकत्वादेव अतो भावोपि विधिमुग्वेन वीक्ष्यतेऽभावोपि । तत्कथं हेतुर्घटते भाववैलक्षण्येनेत्यादि । एतदेव हि भावलक्षगं यद्विधिमुखेन प्रेक्षणम् । इयमिति कारणत्रयरूपा सामग्री ।। यत्र कार्यमिति । यत्रेति मृत्तिकादिके वस्तुनि कार्य घटादि । समवेतमिति सम्बद्धम् । तदिति समवायिका रणम् । तत्प्रसाधकत्वेति । समवायप्रसाधकत्वेनाभोष्टस्य कारणे कार्यस्य समवेतत्वात्समवायः सन्छायः । कार्ये तु पटादी कारणं तन्त्वादि समवेतं प्रसिद्धम् । अतः समवायः शिश्राय विच्छायताम् । सम्बन्धमात्रेले तन्नूनन्नरेण पटः, मृत्तिका मन्तरेण घटो न स्यात् इति सम्बन्धमात्राङ्गोकारे सिद्धं माधनं कारणोत्पद्यमानत्वम् । तस्मान्न समवायस्वीकारः। अविष्वगिति तादात्म्य कारण तया। तदङ्गीकारादिति सम्बन्धस्वीकारात् । एकान्तैकेति एकान्तेनै कस्वभावत्वेन। अस्येति समवायस्य । तत्तदवच्छेदेनेति तेषां तेषामवच्छेदकानां भेदात् । तदुपपत्ताविति मेदोपपत्तौ । तस्यापीति समवायस्यापि । अप्रच्यतेत्यादि । अस्येति समवायस्य । एतादृगित्येतादृग् अप्रच्य. तानुत्पन्नस्थिरै कस्वभावं वस्तु । तत्तत्सहकारीति तानि कार्य प्रति भिन्नानि सहकारीणि दण्डचक्रचीवरदोरकादीनि तुरीवेमप्रभृतीनि च, तेषां कलापः समूहस्तत्सामग्रयवशात् । यथाकाशस्यापि अवच्छेदकमेदान्नानात्वं घटाकाशं पटाकाशमिति । एवं समवायस्यापि नानात्वम् । कार्येति कार्येषु सनिकार इति सविगोपकः । तत्स्वभावेति तस्य समवायस्य स्वभावोऽप्रच्युतानुत्पन्न स्थिरैकलक्षणः । तेषामिति सहकारिणामपि।
तदसत्व इति समवायिकारणाभावे । तल्लक्षणमिति असमवायिलक्षणम् ।
तदसत्त्व इति असमवायिकारणलक्षणाभावे । पतदिति असमवायिकारणम् । तच्छेषभूतस्येति समवाय्यसमवायिशेषरूपस्य ।
सन्तु वा कारणान्यमूनि, तथापि यथा कथञ्चिदालोककलापस्योत्पादः, तथा तमसोऽपि भविष्यति । किमरुचिविर चनाभिर्व्यपासितुं शक्यते ! किमस्योत्पाद कमिति चेत् । आलोकस्य किमिति वाच्यम् ! तेजोऽणव इति चेत् । अस्यापि तमोडणव एव सन्तु । सिद्धास्तावत् तैजसास्तेऽविवादेन वादिप्रतिवादिनोरिति चेत् । तामसा अपि तद्वदेव किं न सत्स्यन्ति :-इति त्यज्यतामाग्रहः ।
અથવા, તમને અભીષ્ટ આ ત્રણે કારણે ભલે ઘડીભર મનાય, તે પણ-જે કઈ રીતે આલેક-પ્રકાશની ઉત્પત્તિ છે, તે રીતે અન્ધકારની પણ ઉત્પત્તિ થશે. માત્ર તમારી અરુચિ હાય એટલા માત્રથી કંઈ અધકારનું ખંડન થઈ જતું नथी.
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org