________________
२७० तमसो भावरूपत्वम् ।
[२. २१ જન-તે પ્રશ્ન છે કે અન્ધકાર કોના વિશેષરૂપે છે ? અન્ધકારને શરીરના વિશેષણ તરીકે કહી શકશે નહીં. કારણ કે શરીર સિવાય અન્ય સ્થળે પણું અન્ધકારની પ્રતીતિ થાય છે. અધિકારને મૂતલ કલશ કે ભીંત વિગેરેના વિશેષણ તરીકે પણ કહી શકે નહીં. કારણ કે એ પદાર્થો સિવાય અન્ય
સ્થળે પણ અન્ધકારની પ્રતીતિ થાય છે. કદાચ, અન્ધકારને સર્વવ્યાપી આકાશનું વિશેષણ કહે છે તે પણ યોગ્ય નથી. કારણ કે આકાશ સાથે વિશેષણવિશેષ ભાવ રૂપે કદીયે અલ્પકારની પ્રતીતિ થતી નથી. એટલે કે અંધકાર આકાશના વિશેષણ તરીકે કદીયે અનુભવાતું નથી. માટે અનુભવ–પ્રત્યક્ષને આધારે અધકારને અભાવરૂપે સ્વીકારે તે યેવ્ય નથી.
(40) स्वातन्त्र्येणेति भावान्तरनिरपेक्षत्वेन । अयमिति अभावः ।।
अन्धकारस्य ग्रहणादित्यत्र अन्धकारस्येत्यभावरूपस्य । को भावः ? आलोकाभावविशिष्टा इतरपदार्था गृह्यन्त इति भावः । तदन्यत्रापीति । न हि केवले एव शरीरे तमः प्रतिभाति । किन्त्वन्येषु घटादिष्वपि । तत एवेति तदन्यत्रापि प्रतिभासनात् । एतस्येति अभावस्य । तद्विशेषणविशेष्यीभावेनेति तेन नभसा विशेषणविशेष्यीभावस्तेन । अभावो हि नभोविशेषणविशेष्यीभावेन कदाचनापि न प्रतिभासते ।
(टि.) तावतैव तेनेति सामग्रयेण! तदभावस्यापीति आलोकाभावस्यापि । तदिति भावान्तरोपलम्भमन्तरेण प्रदीपाद्यालोका द्विना वा ग्रहणम् । आलोकः किलेत्यादि । तदभावस्यापीति आलोकाभावस्यापि । तत्सामग्रयेणेति आलोकसामग्रया । तस्यापीति आलोकाभावस्यापि । तवृत्तित्वादिति द्रव्यवृत्तित्वात् संयोगस्ताबद्गुणः । गुणाश्रयो द्रव्यमिति भव तापि स्वीकारात् । तमसश्चक्षुःसंयोगग्रहणे बलाद् द्रव्यता समायाता। अथासंयुक्त इत्यादि । अयमी. स्यालोकाभावः ।
कतमस्येति नगनगरसागरागुरुकुरङ्गतुरङ्गतरजसारङ्गमातङ्गादिस्थावरत्रसषइविधजीवनिकाये स्फुरति सति तन्मध्ये कस्य ! पप इत्यन्धकारः। तदन्यत्रेति शरीरव्यतिरेकेऽपि । तत एवेति तदन्यत्रापि प्रतिभासनादिति हेतोरेव । एतस्येत्यन्धकारस्य । तद्विशेषणेति नभोविशेषणम् । पतदभावतेति तस्य तमसः अभावताया आलोकाभावत्वस्य स्वीकारः सनिकारः।
४ नाऽप्यानुमानिकी, यतः कतमोऽत्र हेतुराख्यायते सङ्ख्यावता ? किं भाववैलक्षण्येन लक्ष्यमाणत्वम् , भावविलक्षणसामग्रीसमुत्पाद्यत्वम् , असत्येवाऽऽलोके तत्प्रतिभासनम् , आलोकग्रहण सामग्रया गृह्यमाणत्वम् . लिमिरव्योत्पादककारणाभावः, दव्यगुणकर्मातिरिक्तकार्य त्वम् , आलोकविरोधित्वम् , भावरूपताप्रसाधकप्रमाणाभावो वा ?-इत्यष्टपक्षी राक्षसीब त्वत्पक्षभक्ष्यभक्षणविचक्षणोपतिष्ठते ।
तत्र न तावदाऽऽद्यः पनः क्षेमकरः, 'कुम्भोऽयं स्तम्भोऽयम्' इति हि यथा कुम्भादयो भावा विधिमुखेन प्रत्यक्षेण प्रेक्ष्यन्ते. तथा 'इदं तमः' इति तमोऽपि । अभावरूपतायां तस्य प्रतिपेधमुखन प्रत्ययः प्रादुःप्यात् , यथा 'कुम्भोऽत्र नास्ति' इति । ननु नाशप्रध्वंसादिप्रत्यया विधिमुखनाऽपि प्रवर्तमाना दृश्यन्ते । नैवम् , नाशादिशब्दानामेव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org