SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३८ चाक्षुपामाप्यकारित्वविचारः। [२. ५ प्रकाशयति इति तत्प्रकाशम् । प्रसरति तत एतत् स्यादनल्पप्रकाशम् पाठान्तरमेतत् ॥१०॥ पक्ष इति 'चक्षुः प्राप्य मतिं करोति' इत्येवरूपे ।।१२।। (टि०)स्याद् व्योमवदित्यादि। व्यापकतेति चक्षुः सर्वव्यापकम्, अमूर्तत्वात् , यदेवं तदेवं यथा गगन तथा च.यं तस्मात्तथा । द्वितीये इति अल्पपरिमाणत्वे चक्षुः प्राकारकान्ताराद्यग्राहकम्, अल्पपरिमाणत्वात्, यदेवं तदेवं यथा परमाणुः ।।९।। न खल्वित्यादि । नखल्विति नखच्छेदनिका । लूञ् च्छेदने नखपूर्वः नखान् लुनातीति विवप् च । स्वरो ह्रस्वो नपुंसके । नखलु सिद्धम् । तस्मिन्निति चक्षुपि । तत इति रश्मिचक्रात् । एतदिति चक्षुः । अनल्पेति प्राकारादिस्थूलप्रकाशम् । ।।१०।। नन्वेवमित्यादि । पुरस्तादिति पूर्वप्रकान्ते चक्षुः रस्मिदिन्येवरूपे । यत्प्रतिभासेति यया दृशा गृह्यमाणः ।। १२ ।। अथाऽप्यनुद्भूततया प्रभायाः पदार्थसंपर्कजुपोऽप्यनीक्षा । सिद्धिस्तादानी कथमस्तु तस्याः ब्रवीपि चेत् तैजसतात्यहेतोः ॥१३॥ रूपादिमध्ये नियमेन रूपप्रकाशक वेन च तैजसत्वम् । प्रभापस चक्षुपि संग्रसिदं यथा प्रदीपाङ्कुरविद्युदादी ॥१४॥ तदिदं घुसृगविमिश्रणमन्ध्रपुरन्धीकपोलपालीनाम् । अनुहरते व्यभिचाराद रू.पेक्षणसन्निकर्पण ॥१५॥ दव्य वरूपेऽपि विशेषणे स्याद् हेतोरनैकान्तिकताऽजनेन । तस्यापि चेत् तैजसतां तनोपि तन्वादिना किं नु तदाऽपराधम ? ॥१६।। सौवीरसौवर्चलसैन्धवादि निश्चिन्वते पार्थिवमेव धीराः । कृशानुभावोपगमोऽस्य तस्मादयुक्त एव प्रतिभात्यमीपाम् ॥१७॥ तथा चसौवीरसौवर्चलसैन्धवादिकं स्यादाकरोद्भतिवशेन पार्थिवम् । मृदादिवद न व्यभिचारचेतनं चामीकरणाऽनुगुणं निरीक्ष्यते ॥१८॥ चामीकरादेरपि पार्थिवत्वं लिङ्गेन तेनैव निवेदनीयम् ।। शाब्दप्रमाणेन न चात्र बाधा पक्षस्य यद् नास्ति तदत्र सिद्धम् ।।१९।। अञ्जनं मरिचरोचनादिकं पार्थिवं ननु तवाऽपि संमतम् । अञ्जनेऽपि तदसौ प्रवृत्तिमानप्रयोजकविडम्बडम्बरी ॥२०॥ हनूमल्लोललाङ्गुललम्बात् ते साधनादतः । न सिद्धिस्तैजसत्वस्य दृष्ट सुस्पष्टदूपणात् ।।२१।। चक्षुर्न तेजसमभास्वरतिग्मभावा दम्भोवदित्यनुमितिप्रतिषेधनान्च । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005476
Book TitleRatnakaravatarika
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy