SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ २. १] अर्थापत्तिविचारः । સમાનતા છે એ પ્રમાણે પરોક્ષ રહેલ ગાયમાં “સાદસ્થજ્ઞાન ઉત્પન્ન થાય છે, તે ઉપમાન પ્રમાણુ કહેવાય છે, વળી કહ્યું પણ છે કે “તેથી (સન્મુખ રહે : પદાર્થથી) જેનું મરણ થાય તે સાદૃશ્ય યુક્ત પદાર્થ અથવા મૃત પદાર્થનું તે સાથેનું સદશ્ય એ ઉપમાનને વિષય છે. આ ઉપમાન પ્રમાણને અન્તર્ભાવ પક્ષના ભેદરૂપ પ્રત્યભિજ્ઞાનમાં ગ્રંથકાર स्वय ४२शे. (५०) स्मरणसहकारीत्यत्र स्मरण सहकारि यस्य । न चातिदेशेति गये न चातिदेशवाक्यं श्रुतमिति सम्बन्धः । अनेनेति गवयेन । स गौरिति पिण्डविषयं ज्ञानम् । अनेनेति गवयेन । यदिति गोपिण्डः । सादृश्येनेति गवयसादृश्येन। प्रमेयमिति गोचरः । तदन्वितमिति गवयान्वितम् । (टि.) तस्माद् यदित्यादि । तस्मादिति ज्ञानात् । यदिति गवयपिण्ड दृश्यते अटव्यां पर्यटता पुंसेति शेषः । सादृश्येनेति सादृश्यविशिष्टं पिण्ड, पिण्डविशिष्टं वा सादृश्यं गोचरयत्संवेदनमुदीयेत, तेन विशेषितं सादृश्यं वेति गोगवयगतम् । तदन्वितमिति गोगवयपिण्डसम्बद्धम् । तदुच्यते इति उपमानमभिधीयते । एतच्चेति उपमानम् । १११ अर्थापत्तिपि-- "प्रमाणपटकविज्ञातो यत्रार्थोऽनन्यथाभवन् । अदष्टं कल्पयेदन्यं साऽर्थापत्तिरुदाहृता ॥१॥" [ मी लो०अर्था ०१ ] इत्येवंलक्षणाऽनुमानान्तर्गतैव । तथाहि-अर्थापत्त्युत्थापकोऽर्थाऽन्यथानुपपद्यमानत्वेनाऽनवगतः, अवगतो वाऽष्टार्थपरिकल्पनानिमित्तं स्यात् ! न तावदनवगतः, अतिप्रसङ्गात् । अथाऽवगतः, तयन्यथाऽनुपपद्यमानत्वावगमोऽर्थापत्तेरव, प्रमाणान्तराद् वा ! प्राच्यप्रकार परस्पराश्रयः । तथाहि अन्यथाऽनुपपद्यमानत्वेन प्रतिपन्नादर्थादर्थापत्तिप्रवृत्तिः, तत्प्रवृत्तेश्चास्यान्यथानुपपद्यमानत्वप्रतिपत्तिरिति । प्रमाणान्तरं तु भूयोदर्शनम् , विपक्षेऽनुपटम्भो वा ! भूयोदर्शनमपि साध्यधर्मिणि, दृष्टान्तधर्मिणि वा ? यदि साध्यमिणि. तदा भृयोदर्शन व साध्यस्यापि प्रतिपन्नत्वादापवयर्थम । अथ दृष्टान्तधर्मिणि, तर्हि तत्र प्रवृत्तं भूयोदर्शनं साध्यधर्मिण्यप्यन्यथाऽनुपपद्यमानत्वं निश्चाययति. तत्रैव वा ? तत्रोत्तरः पक्षोऽसन् । न खलु दृष्टान्तधर्मिणि निश्चितान्यथाऽनुपपद्यमानवोऽर्थः साध्यधर्मिणि तथात्वेनाऽनिश्चितः स्वसाध्य गमयति अतिग्रसङ्गात् । प्रथमपक्षे तु लिङ्गार्थापत्त्युत्थापकार्थयोमैदाभावः । विपक्षे ऽनुपलम्भात् तदवगम इति चेत् । नन्वसावनुपलुम्भमात्ररूपोऽनिश्चितः, निश्चितो वा तदवगमयेत् ? प्रथमपक्षे. तत्पुत्रत्वादेरपि गमकत्वापत्तिः । निश्चितश्चेत्; तर्खनुमानमेवा १ वा दृष्टा मु। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005476
Book TitleRatnakaravatarika
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy