________________
१. २१] प्रामाण्याप्रामाण्ययोरुत्पत्तिक्षप्तिविचारः ।
११७ પણ પરતઃ સિદ્ધ થશે. અને જે રીતે દેશના અનુમાનમાં વ્યાપ્તિને નિશ્ચય કરતા છે તે જ રીતે ગુણના અનુમાનમાં પણ વ્યાપ્તિનો નિશ્ચય કરી લેવો. અદષ્ટના સંબંધને નિર્ણય જે થઈ જ શકતે ન હોય તે સૂર્યની ગતિના અનુમાનમાં સંબંધને નિશ્ચય કઈ રીતે થશે ? અને દષ્ટાંતમાં તે જે રીતે દેશના અનુમાનમાં સાધ્ય અને સાધનના સંબંધને બોધ થાય છે તેવી જ રીતે ગુણના અનુમાનમાં પણ સાધ્ય અને સાધનના સંબંધને બોધ થાય છે.
(५०) अभावः सम्मत इत्यतोऽग्रे "तस्य हेतोः किं न समुद्भवः' । (टि.) किं न नर्मल्यादीनिति उत्तरयन्ति सूरयः । तथापीति । अयमिति गुणः । तुच्छ इति अभावरूपः ।
भावान्तरेत्यादि भावान्तरेण विवक्षितघटादिना रहितो भावो भूतलादिः । यथा घटाभावो भूतलम् । तत्र भूतल भावरूपमस्त्येव',अपरेपि भावाः सन्ति । किन्तु विवक्षितो घट एव नास्ति । अनुपलम्भेति यथात्र भूतले घटस्यानुपलम्भस्तथाऽभावोपि । तदपेक्षायामिति दोषाभावापेक्षायाम् । तेषामिति गुणानाम् । तत्स्थानेवेति अधिष्ठानप्रतिष्ठान् । तदिति प्रत्यक्षम् । तदनुवृत्ताविति विज्ञानानुवृत्तावपि । प्रतिबन्ध इति अविनाभावः । तन्निर्णय इति अविनाभावनिक्षयः।
१६ यच्चाऽवाचि–'निश्चयस्तु तस्य परतः' इत्यादि । तत्र संवादिवेदनादिति ब्रूमः । कारणगुणज्ञान-बाधकाभावज्ञानयोरपि च संवादकज्ञानरूपत्वं प्रतिपद्यामहे । यादृशोऽर्थः पूर्वज्ञान प्रथापथमवतीर्णस्तादृश एवासो येन विज्ञानेन व्यवस्थाप्यते तत् संवादकमित्येतावन्मानं हि तल्लक्षणमाचचक्षिरे धीराः । यस्तु गुणग्रहणप्रवणप्रमाणपराकरणपरायणातिदेशप्रयासः, प्रयास एव केवलमयमजनि भवतः, दोपसंदोहवद् गुणगणेऽपि प्रमाणप्रवृत्तेरनिवारणात् । यत्तु बाधकाभावज्ञानपक्षे विकल्पितम्-'तात्कालिकस्य कालान्तरभाविनो वा' इत्यादि । तत्राद्यविकल्पपरिकल्पनाऽल्पीयसी । न खल साधननिर्मासिसंवेदेनोदयकाले क्यापि कम्यापि बाधकस्योदयः संभवी, उपयोगयोगपद्यासंभवात् । भविष्यत्कालस्य तु बाधकस्याभावज्ञानात् प्रामाण्यनिर्णयो निरवद्य एव । न च चर्मचक्षुषां तदभावो भवितुमर्हति, यदुदग्रसमग्र सामग्रीसंपाद्यसंवेदनं न तत्र भाविबाधकावकाश इत्येवं तन्निर्णयात् । यदि च भाविवस्तुसंवेदनमस्मादृशां न स्यादेव, तदा कथं कृत्तिकोदयात् शकटोदयानुमानं नास्तमियात् !
यत्पुनरवादि-संवादिवेदनं तु' इत्यादि । तत्र संवादिवेदनात् साधननि सिप्रतिभासविषयस्य, विषयान्तरस्य वा ग्राहकात् प्रामाण्यनिर्णय इति ब्रूमः । भवति हि तिमिरनिकुरम्बकरम्वितालोकसहकारिकुम्भावभासस्य तत्रैवैकसन्तानं भिन्नसन्तान च निरन्तरालोकसहकारिसामर्थ्यसमुद्भूतं संवेदनं संवादकम् । न च तैमिरिकादि
१ मस्त्वेव मु।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org