________________
१. २१]
प्रामाण्याप्रामाण्ययोरुत्पत्तिक्षप्तिविचारः।
१५ अत्राभिदध्महे-यत्तावद् ‘गुणाः प्रत्यक्षेणाऽनुमानेन वा मीयेरन्' इत्यादि न्यगादि, तदखिलं न खलु न दोषप्रसरेऽपि प्रेरयितुं पार्यते । अथाध्यक्षेणैव चक्षुरादिस्थान दोपान् निश्चिक्यिरे लोकाः । किं न नैर्मल्यादीन् गुणानपि ? अथ तिमिरादिदोषाभावमात्रमेव नैर्मल्यादि, न तु गुणरूपमिति कथमध्यक्षेण गुणनिश्चयः स्यात् ? एवं तर्हि नैर्मल्यादिगुणाभावमात्रमेव तिमिरादि, न तु दोषरूपमिति विपर्ययकल्पना किं न स्यात् ! अस्तु वा दोषाभावमात्रमेव गुणः, तथापि नायं तुच्छः कश्चित् संगच्छते,
"भावान्तरविनिर्मुक्तो भावोऽत्रानुपलम्भवत् ।
अभावः संमतः ॥१॥"' इति स्वयं भट्टेन प्रकटनात् । तदपेक्षायामपि च कथं न परतः प्रामाण्योत्पत्तिः ? अथाऽऽसतां नैर्मल्यादयो गुणाः । तथाप्यधिष्ठानप्रतिष्ठानेव तान् प्रत्यक्षं साक्षात्करोति, न करणस्थान् , तेषां परोक्षत्वात् । तर्हि तत एव दोषानपि तत्स्थानेव तत् साक्षात् कुर्यात् । इति कथं दोषा अपि प्रत्यक्षलक्ष्याः स्युः !
___ अथ-अप्रामाण्यं विज्ञानमात्रोत्पादककारणकलापातिरिक्तकारकोत्पाद्यम् , "विज्ञानमात्रानुवृत्तावपि व्यावर्तमानत्वात् । यदनुवृत्तावपि यद् व्यावर्तते तत्तन्मात्रोत्पादकका• रणकलापातिरिक्तकारकोत्पाद्यम् । यथा पाथःपृथिवीपवनातपानुवृत्तावपि व्यावर्तमानः कोदवाङ्घरस्तदतिरिक्तकोद्रवोत्पाद्यः-इत्यनुमानाद् दोषप्रसिद्धिरिति चेत् । चिरं नन्दताद् भवान् । इदमेव ह्यनुमानमप्रामाण्यपदं निरस्य प्रामाण्यपदं च प्रक्षिप्य गुणसिद्धावपि विदध्यात् इति कथं न दोषवद् गुणा अपि सिद्धयेयुः, यतो नोत्पत्तो परतः प्रामाण्यं स्यात् ? प्रतिबन्धश्च यथा दोषानुमाने तथा गुणानुमानेऽपि निर्णेयः । कथं वाऽऽदित्यगत्यनुमाने तन्निर्णयः ! दृष्टान्ते तु यथाऽत्र साध्यसाधनसंवन्धोद्योधोऽस्ति, तथा गुणानुमानेऽपि ।
ઉપ જૈન–મીમાંસકના આ મન્તવ્યના વિરોધમાં અમે હવે આ પ્રમાણે કહીએ છીએ કે પ્રથમ તે “ગુણે પ્રત્યક્ષથી જણાય છે કે અનુમાનથી?’ વિગેરે જે કંઈ કહ્યું તે સઘળું દેને વિષે પણ કહી શકાય તેમ છે. જોકે ચક્ષુ વગેરે ઇન્દ્રિયોમાં રહેલ દોને નિશચય પ્રત્યક્ષથી જ કરે છે, એમ કહે તે–અમારો ઉત્તર એ છે કે-લે કે ચક્ષુ વગેરે ઇન્દ્રિયોમાં રહેલ નિર્મલતાદિ ગુણોને નિશ્ચય પણ શું પ્રત્યક્ષથી નથી કરતા? કરે જ છે.
१ अत्र संपूर्णः श्लोको दृश्यते मुद्रिते । . २ तदनुवृत्तावपि-इति टिप्पणसंमतः पाठः । ३ यदित्यं तदित्यं यथा-मुपा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org