________________
प्रामाण्याप्रामाण्ययोरुत्पत्तिज्ञप्तिविचारः ।
[ १.२१
પરંતુ અપ્રામાણ્ય ઉત્પત્તિમાં દોષની અપેક્ષા રાખતુ હોઇ અને જ્ઞપ્તિમાં બાધકજ્ઞાનની અપેક્ષા રાખતું હાઈ પરતઃ જ છે.
११४
(१०) मीमांसा मांसलतामिति मीमांसा ग्रन्थविशेषः । स्वत एव सर्वथा प्रमाणानामिति उत्पत्ती ज्ञप्तौ च । तदिति प्रामाण्यम् । तेषामिति गुणानाम् । तद्ग्रहणायोग्यत्वात् इति इन्द्रियग्रहणायोग्यत्वात् । तत्रेति अनुमाने । नियमनिर्णय इति प्रतिबन्धनिर्णयः । न प्रत्यक्षादिति धूमधूमध्वजयोह्यविनाभावं प्रत्यक्षान्निश्चिन्वन्ति कृतिनः । इह च न प्रत्यक्षात् । तत्प्रवृत्तेरिति प्रत्यक्षप्रवृत्तेः । द्विष्ठसम्बन्धसंवित्तिरिति इन्द्रियाणां गुणिनां परिज्ञानेऽपि गुणानामपरिज्ञानात् । द्विष्ठसम्बन्धेत्यादि पूर्वार्द्ध ग्रन्थेऽस्ति, अपरार्द्ध तु " द्वयस्वरूपग्रहणे सति सम्बन्धवेदनम्' । तत एवेति गुणनिर्णायकानुमानादेव । तदन्तरादिति । अनुमानान्तरात् ! तत् कथमिति तत् प्रामाण्यम् ।
तन्निश्चयं विरचयेदिति । अर्थज्ञाननिश्चयं प्रामाण्यमित्यर्थः । तस्यैव ग्राहकं सत् तन्निश्वयं विरचयेदिति योगः । तद्धीति तैमिरिकावलोक्यमानमृगाङ्कमण्डलद्वयदर्शिदर्शनम् । चैत्रस्य पुनः पुनर्मैत्रस्य चोत्पद्यत एवेति । तस्यैव तैमिरिकस्य चैत्राख्यस्य पुनः पुनर्दर्शनं संवादिज्ञानमेकसन्तानम्, मैत्रस्यापि द्विचन्द्रदर्शने भिन्नसन्तानम् । तद्यदि संवादिज्ञानेन तद्विषंयग्रहणमात्रेणैव प्रामाण्यनिश्चयः सोऽत्रापि प्रसज्येत । तद्भवेदिति विषयान्तरग्राहकं भवेत् । अर्थक्रियाज्ञानस्यापि प्रामाण्यनिश्चय इति । प्रवर्तकज्ञानस्य तावदर्थक्रियाज्ञानात् प्रामाण्यनिश्चयः । तस्यैव तु कथमित्याह ।
(टि०) सर्वथेति उत्पत्तौ ज्ञप्तौ च । तदुत्पत्तीति प्रामाण्योत्पादप्रवणा । अतीन्द्रियेति अतीन्द्रियमिन्द्रियगोचरातीतमिन्द्रियमाभ्यन्तरं निवृत्तिरूपमधिकरणमाधारो येषां तद्भावस्तत्त्वम् । तेषामिति गुणानाम् । तद्ग्रहणेति तेनैन्द्रियेण ज्ञानाऽसम्भवात् । तस्य चाविति अतीन्द्रियप्रत्यक्षस्य । अतीन्द्रियप्रत्यक्ष सिद्धौ हि सर्वज्ञः सिध्यति । न चामी तं मन्यन्ते । अनुमानेन तानिति गुणान् । निरणेष्महीति निश्चयपूर्व मन्यामहे । तत्रेति तेषु गुणेषु । नियमनिर्णय इति अनुमानाविनाभावनिश्चयः । तत्प्रवृत्तेरिति प्रत्यक्ष प्रवृत्तेः । परास्तत्वादिति अपाकृतत्वात् । द्विष्ठसम्बन्धेति "द्वयोः स्वरूपग्रहणे सति सम्बन्धवेदनम् ।"
तत एवेति गुणसाधका देवानुमानात । तन्निश्चिताविति अविनाभावसम्बन्धनिश्चित इतरेतराश्रयस्य प्रसक्तिः । तदन्तरादिति अनुमानान्तरात् तन्निश्चित ।
'निश्चयस्त्वित्यादि । तस्येति प्रामाण्यस्य । प्रास्थामेति क्षिप्तवन्तः । तन्निश्चायकमिति प्रामाण्यनिर्णायकम् ।
भिन्नकालत्वेन तस्येति संवादकज्ञानस्य । तस्यैवेति प्रामाण्यस्य । तद्विषयस्येति प्रामाण्यविषयस्य । प्रवर्त्तकेति संवादकज्ञानस्य । तदिति संवादिवेदनम् । पक्षद्वयेपीति तिमिररोगाभिभूतनयनो जनः चन्द्रमण्डलद्वितयं पुनः पुनः पश्यति । प्रथमालोकितशशियुगलस्य संवादकं पुनः पुनर्विधुवीक्षणं भवेत् तथापि तद् ज्ञानं संवाददत्तहस्तावलम्बमपि न प्राज्ञप्रवृत्तिप्रतिपत्तिनिमित्तम्, विमलनयनजनविलोकनेन व्यभिचारात् तस्य प्रामाण्यगोचराभावात् । तद्धीति । ननु एकपुरुषप्रतिप्रं शशिद्वयावलोकनमप्रमाणं भवतु पुनर्धन ( पुनरन्य ? ) जननयनगोचरीभूतं तत्कथनप्रमाणं स्यात् मेवम् । य एकत्र दोष सर्वत्रापि स एव । अयंदपीति विषयान्तरसम्बन्धि ।
१ तन्निश्चिताविति । मु ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org