SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ૨૦૮ स्वसंवेदनम् । [ १. १८ पाधिरभिधीयते इति । यथा तत्पुत्रत्वादिना श्यामत्वे साध्ये शाकाद्याहारपरिणाम उपाधिः । न हि ये ये तत्पुत्रास्तेषां सर्वेषामपि शाकाद्याहारपरिणामः । तत्पुत्रत्वमपि भविष्यति केषाञ्चिच्छाकाद्याहारपरिणामश्च न भविष्यति इति साधनाव्यापकः । ये ये श्यामास्तेषां शाकाद्याहारपरिणामः । यत्र यत्र श्यामत्वं तत्र तत्र शाकाद्याहारपरिणामः यत्र यत्र शाकाद्याहारपरिणामस्तत्र तत्र श्यामत्वमिति साध्येन समव्याप्तिकः ॥१८॥ (टि.) तज्ज्ञानस्येति ईश्वरवेदनस्य । तेपामिति जैनानाम् । अस्येति ईभरस्य । तत्पुत्रत्वादिनेत्यादि । स श्यामः, तत्पुत्रत्वात् दृश्यमानतदितरपुत्रवत् । अत्र साधने शाकाद्याहारपरिणामलक्षणस्य उपाधेः प्रवेशप्रबन्धः सुदुःप्रतिषेधः स्यात् । साध्यं श्यामत्वं व्याप्तं तेन, तमन्तरेण श्यामत्वासम्भवात् । तत्पुत्रत्वं तु साधनं न व्याप्तम् । यत्तत्तनया अपरे गौरकाया अपि प्रेक्ष्यन्ते । कः पनरित्यादि । अत्रेति 'ईश्वरज्ञानान्यत्वे सति प्रमेयत्वात्' इत्येवंरूपे । अस्येति उपाधेः । शाकाद्याहारपरिणाम उपाधिः । न हि ये ये तत्पुत्रास्तेषां सवैपामपि शााद्याहारपरिणाम इति साधनाव्यापकः । यत्र यत्र श्यामत्वं तत्र तत्र शाकाद्याहारपरिणामः । यत्र यत्र शाकाद्याहारपरिणामस्तत्र तत्र श्यामत्वमिति साध्येन समव्याप्तिकः । तमिति स्वप्रकाशाभावम् । ११ यच्चोक्तम्- 'समुत्पन्नं हि ज्ञानमेकात्मसमवेत'-इत्यादि । तदपि नावितथम् , इत्थमर्थज्ञानतज्ज्ञानयोरुत्पद्यमानयोः क्रमानुपलक्षणात् । आशूत्पादादत्र क्रमानुपलक्षणम् , उत्पलपत्रशतव्यतिभेदवदिति चेत् । तदचारु, जिज्ञासाव्यवहितस्याऽर्थज्ञानज्ञानस्योत्पादप्रतिपादनात् । न च जिज्ञासासमुत्पाद्यत्वं संवेदनानां संगच्छते, अजिज्ञासितेष्वपि योग्यदेशेषु गोचरेषु तदुत्पादप्रतीतेः । न चायोग्यदेशमर्थज्ञानम् , आत्मसमवेतस्याऽस्य समुत्पादात्-इति जिज्ञासामन्तरेणैवार्थज्ञाने ज्ञानोत्पादप्रसङ्गः । बाढमुत्पद्यतां नामेदम्, को दोषः ? - इति चेत् । नन्वेवमेव तज्ज्ञानज्ञानेऽप्यपरज्ञानोत्पादप्रसङ्गः, तत्राऽपि चवमेवायम्-इत्यपरापरज्ञानोत्पादपरम्परायामेवात्मनो व्यापाराद् न विषयान्तरसंचारः स्यात् । इति न ज्ञानस्य ज्ञानान्तरज्ञेयताऽपि युक्तिमार्गमवगाहते ।।१८।। .६११ वणी, तभाये उत्पन्न येस जानने ते मात्भामा उत्पन्न थयु હોય તે જ આમામાં તે જ્ઞાન પછી સમત થનાર વિગેરે કહ્યું તે પણ સત્ય નથી, કારણ કે–એ રીતે અર્થજ્ઞાન અને અર્થજ્ઞાનના જ્ઞાનની ઉત્પત્તિને કમ દેખાતું નથી. યૌગ--કમળના સેંકડો પત્રનો એકદમ વેધ થઈ જવાથી જેમ તેને કમ જણાતું નથી, તેમ અહીં પણ એકદમ ઉત્પત્તિ થતી હોવાથી તેને કમ જણાતું નથી. જેન–તમારું આ કથન યોગ્ય નથી. કારણ કે-જિજ્ઞાસાનું વ્યવધાન જ્ઞાનના જ્ઞાનની ઉત્પત્તિમાં તમેએ માન્યું છે. તેથી જ્ઞાન અવશ્ય કમિક ભાસવું જોઈએ. વળી જ્ઞાનની ઉત્પત્તિ જિજ્ઞાસાથી થાય છે, તે પણ યુક્તિસંગત નથી, કારણ કેયોગ્ય દેશમાં રહેલ અજિજ્ઞાસિત પદાર્થોનું પણ જ્ઞાન થઈ જાય છે, એવી પ્રતીતિ સૌને છે. વળી, અર્થજ્ઞાનને અગ્યદેશવૃત્તિ પણ કહી શકાય નહીં કારણ કે Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005476
Book TitleRatnakaravatarika
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy