________________
स्वसंवेदनम् ।
स्वव्यवसायमेव स्पष्टदृष्टान्तप्रकटनेन निष्टङ्कयन्ति——
कः खलु ज्ञानस्याssलम्बनं वाद्यं प्रतिभातमभिमन्यमानस्तदपि तत्प्रकारं नाभिमन्येत मिहिरालोकवत् ? ॥ १८ ॥
११ तदपीति ज्ञानमपि तत्प्रकारमिति स प्रतिभातत्वलक्षणः प्रकारः प्रतिनियतं स्वरूपं यस्य तत् तत्प्रकारं प्रतिभातमित्यर्थः । यथैव हि गिरिनगरगहनादिकं मिहिलोकस्य विषयं प्रतिभातमभिमन्यमानैर्मिहिरालोकोऽपि प्रतिभातोऽभिमन्यते लौकिकपरीक्षकैः, तद्वज्ज्ञानस्य विषयं कुम्भादिकं प्रतिभातमभिमन्यमानैस्तैर्ज्ञानमपि प्रतिभानं स्वीकर्तव्यमिति ।
સ્પષ્ટ દૃષ્ટાંત જણાવીને સ્વવ્યવસાયી’ વિશેષણનું સમર્થન
સૂર્યપ્રકાશની જેમ જ્ઞાનના બાહ્ય આલમ્બનને પ્રતિભાત માનનાર એવા કાણ હશે જે તેને પણ તે પ્રકારનું ન માને ? ૧૮.
$૧ તેને પણ–જ્ઞાનને પણ, તે પ્રકારનું એટલે કે પ્રતિભાત રૂપે નિયત સ્વરૂપવાળુ. સૂર્યપ્રકાશના વિષયભૂત પર્વતાદિ પદાર્થાને પ્રતિભાત માનનાર લૌકિક અને પરીક્ષકાએ સૂર્ય પ્રકાશને પણ પ્રતિભાત માનેલ છે, તેમ જ્ઞાનના વિષય ઘટાદિ પદાર્થને પ્રતિભાત માનનાર લૌકિક અને પરીક્ષકાએ જ્ઞાનને પણ પ્રતિભાત मानवु ले मे
१२ अत्रेयं भट्टचट्ट्घट्टना- ननु न स्वसंवेदनं वेदनस्य सुन्दरम्, स्वात्मनि क्रियाविरोधात् - इत्यस्य पारोस्यमेवाक्षूणं कक्षीकरणीयम् ।
९३ तदेतदरमणीयम् । यतः - किमुत्पत्तिः, ज्ञाप्तिर्वा स्वात्मनि विरुध्येत यद्युत्पत्तिः, सा विरुध्यताम् । न हि ज्ञानमात्मानमुत्पादयतीति वयमध्यगीष्महि । अथ ज्ञप्तिः, नेयमात्मनि विरोधमदीघरत्, तदात्मनैव ज्ञानस्य स्वकारणकलापादुत्पादात्. प्रकाशात्मनेव प्रदीपकलिकालोकस्य ।
१००
अथ प्रकाशात्मनैव प्रदीपालोकोऽयमुदयमाशिवानिति परप्रकाशकोsस्तु, आत्मानमप्येतावन्मात्रेणैव प्रकाशयतीति तु कौतस्कृती नीतिः - इति चेत् । तत्किं तेनाप्रकाशितेनैव वराकेण स्थातव्यम्, आलोकान्तराद वा प्रकाशनाऽस्य भवितव्यम् : प्रथमे, प्रत्यक्षवाधा । द्वितीयेऽपि सैवाऽनवस्थापत्तिश्च ।
[१.१८.
६४ अथ नाऽसौ स्वमपेक्ष्य कर्मतया चकास्ति इत्यस्वप्रकाशकः स्वीक्रियते, . प्रकाशरूपतया तूत्पन्नत्वात् स्वयं प्रकाशत एवेति चेत् । अनेनैव सुधामद्धि । न हि वयमपि ज्ञानं कर्मतयैव प्रतिभासमानं स्ववेद्यमावेदयामहिं ज्ञानं स्वयं प्रतिभासत इत्यादावकर्मकस्य तस्य चकासनात् । यथा तु ज्ञानं जानामति कर्मतयाऽपि तद् भाति तथा प्रदीपः स्वं प्रकाशयतीत्ययमपि तथा प्रथत एव ।
१ यथा मु ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org