________________
१. १६. ]
ब्रह्मवादः । અપ્રતીમાન માને તે બ્રાત્માને વિષે બ્રહ્મવિષયક શબ્દની પ્રવૃત્તિ જ નહીં થાય. તે તે વિષયમાં તમારે મૂંગા રહેવું એ જ કલ્યાણકારી છે.
વળી, તમોએ “છીપને ટુકડામાં ચાંદી એ પ્રમાણે તમારા અનુમાનમાં જે દષ્ટાંત આપ્યું છે તે સાધ્યરહિત છે, કારણ કે-શુકિતશકલ વિષેનું રજત પણ પ્રપંચની અન્તર્ગત હોવાથી તેની અનિવાંચ્યતા સિદ્ધ નથી પણ સાધ્યમાન છે.
(१०) प्रत्यक्षेपीति प्रतिक्षिप्ता । तद्धि विधायकमेवेति :
" आहुविधातृ प्रत्यक्षं न निषेद्ध विपश्चितः ।।
नेकय आगमस्तेन प्रत्यक्षेण प्रबाध्यते ॥१॥" [ब्रह्मसिद्धि २.१] तथा तथेति घटादिविवर्तरूपेण । ब्रहीयेति कर्मतापन्नं ब्रह्म। अन्यप्रतिपेधप्रतिपत्ति. रूपत्वादिति । मुण्डभूतले घटाभावग्रहणवत् । येन हि पदास्खलनादिना मुण्डभूतलं गृहीतम् , घटाभावोऽपि तेन गृहीतः ।
(टि.) प्रत्यक्षेपीति निराकारि । तस्येति प्रत्यक्षस्य । वाच्यत्वेनेति घटादिविवर्तरूपेण ।
पक्षेति प्रपञ्चो मिथ्या इत्येतस्य पक्षस्य । तद्धीति प्रत्यक्षम् । विधायकमिति ब्रहालक्षण. प्रकृतपक्षजनकमेव । तथा तथेति प्रत्यक्षं कर्तुं तेन तेन प्रकारेण विचार्यमाणम् । ब्रह्मैव कर्मतापन्नम् । साहीति प्रपञ्चसत्यता। 'तथेति । निपिद्धा भवेत् । यदीतरस्मिन्निति सरले, इतरे. पामिति तमालादीनाम् . न चैवमिति प्रत्यक्षेण प्रतिषेधो . न कृतः, प्रत्यक्षस्य निषेधकुण्ठत्वात् । तदाऽवश्यमित्यादि । तदिति प्रत्यक्षम् । प्रतिपद्यत इति मुण्डभूतले घटाभावग्रहणवत् । येन पदास्खलनादिना मुण्डभूतलं गृहीतम्, घटाभायोपि तेन गृहीतः । केवलेति । प्रतिपत्तानस्यैव । विवेकेनेति निरासेन ।
प्रतियन्निति जानन् प्रतिपूर्वकः इण् गतौ । प्रत्येती(प्रतियन्नि)ति शतृप्रत्ययः । "गमनार्या धातवः सर्वेऽपि ज्ञानार्थाः" इति वचनादवगच्छनित्यर्थः । तदिति प्रत्यक्षम्।
प्रपञ्चो मिथ्येत्यादि । स हीति ब्रह्मात्मा । अस्येति ब्रह्मात्मनः । तद्गोचरेति ब्रह्मविषयः ।
६१३ किञ्च, इदमनुमानं प्रपञ्चाद भिन्नम् , अभिन्नं वा ! यदि भिन्नम् , तहिं सत्यम् , असत्यं वा : यदि सत्यम् , तर्हि तद्वदेव प्रपञ्चस्यापि सत्यत्वं स्यात् । अथाऽसत्यम् : तत्रापि शून्यम् , अन्यथाख्यातम् . अनिर्वचनीयं वा ! आद्यपक्षद्वयेऽपि न साध्यसाधकत्वम् , नृशृङ्गवच्छुक्तिकलधौतवच्च । तृतीयपक्षोऽप्यक्षमः, अनिर्वचनीयस्थाऽसंभवित्वेनाभिहितत्वात् ।
व्यवहारसत्यमिदमनुगानम , अतोऽसत्यत्वाभावात् स्वसाध्यसाधकमिति चेत् । किमिदं व्यवहारसत्यं नाम ? व्यवहृतिर्थवहारो ज्ञानं तेन चेत् सत्यम् , तर्हि पारमार्थिकमेव तत् । तत्र चोत्तो' दोपः । अथ व्यवहारः शब्दस्तेन सत्यम् । ननु
१ अत्र 'तथेति निषिद्धा , भवेदिति' असंगतं भाति । * चिहान्तर्गतः पाठः मुद्रित एव । २ चोक्तदोषः इति टिप्पणसंमतः पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org