________________
१. १६. ]
ब्रह्मवादः।
शंकाः-५'यो प्रतीयमान थाय छ तेवो नथी. समाधानः-सोम मानो तो विपरीत यातिना स्वारना . प्रस। मावशे.
(५०) कथं धर्मितया, प्रतीयमानत्वं च तुतयापाददे इति । प्रसिद्ध एव हि धर्मी क्रियते।
(टि.) तदेतदिति । एतद्वयवहारप्रतिपन्नपदार्थसार्थस्य मिथ्याप्ररूपणेन कदर्थनम् । एतस्येति ब्रह्मवादिनः । किन्तु वावदकतामेव वेदयति । न प्रथमस्येति ज्ञानस्य । न द्वितीयस्येति विषयस्य विरह इति सम्बन्धः ।
ननु भावेत्यादि । ताविति भावाभावो । विपरीताविति अलौकिकौ । प्रतिषेधोपीति नास्तीति शेषः । परस्परेति भावाभावयोः । नान्तरीयेति अविनाभावित्वात् । तन्निरुक्तीति लौकिकनिश्चितोक्तिनिषेधः । निस इति षष्टयन्तं पदं कलापके' निराित सिद्धम् । स्वभावेति भावस्वरूपोऽभावस्वरूपो वा स्वभावः।। अन्यतरेति भावाभावयोमध्यादेकनिषेध परेण भवितव्यम् । तथोपादान इति धर्मित्वोपादाने । यतः प्रसिद्ध एव हि धर्मी क्रियते ।
१२ किञ्च, इयमनिर्वाच्यता प्रपञ्चस्य प्रत्यक्षेण प्रत्यक्षेपि-सरलोऽयम् इत्याद्याकारं हि प्रत्यक्षं प्रपञ्चस्य सत्यतामेव व्यवस्यनि, सरलादिप्रतिनियतपदार्थपरिच्छेदात्मनस्तस्योत्पादात् , इतरेतरविविक्तवस्तूनामेव च प्रपञ्चवचीवाच्यत्वेन संमतत्वात् ।
अथ कथमेतत्प्रत्यक्षं पक्षप्रतिक्षेपकम् ! तद्वि विधायकमेवेति तथा तथा ब्रह्मैव विदधाति, न पुनः प्रपञ्चसत्यतां प्ररूपयति । सा हि तदा प्ररू.पिता स्याद् , यदीतरस्मिन्नितरेपां प्रतिषेधः कृतः स्यात् । न चैवम् , निपंधे कुण्ठत्वात् प्रत्यक्षस्येति चेत् । तदयुकम् , यतो विधायकमिति कोऽर्थः ? इदमिति वस्तुस्वरूपं गृह्णाति, नान्यस्वरूपं प्रतिपेधति प्रत्यक्षमिति चेत् । मैवम् । अन्यरू.पनिपेधमन्तरण तत्स्वरूपपरिच्छेदस्याप्यसंपत्ते:-पीतादिव्यवच्छिन्नं हि नीलं नीलमिति गृहीतं भवति, नेतरथा । यदेदमिति वस्तुस्वरूपमेव गृह्णाति प्रत्यक्षमि युच्यते, तदाऽवश्यमपरस्य प्रतिपेधमपि तत् प्रतिपद्यत इत्यभिहितमेव भवति, केवलवस्तुस्वरूपप्रतिपत्तेरेवान्यत्रतिपेधप्रतिपत्तिरूपत्वात् ।
___ अपि च, विधायकमेव प्रत्यक्षमिति नियमस्याऽङ्गीकारे विद्यावद विद्याया अपि विधानं तवाऽनुपज्यते । सोऽयमविद्याविवेकेन सन्मानं प्रत्यक्षात् प्रतियन्नेव 'न निपेधक तत्' इति ब्रुवाणः कथं स्वस्थः । इति सिद्रं प्रत्यक्षवाधितः पक्ष इति ।
___ अनुमानबाधितश्च-प्रपञ्चो मिथ्या न भवति, असद्विलक्षणत्वात् । य एवं स एवं यथा आत्मा । तथा चाऽयम् । तस्मात्तथेति । प्रतीयमानत्वं च हेतुह्मात्मना १ कलापकेन निरति डे।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org