________________
९०
शून्यवादः।
[१. १६. પ્રમેયરૂપ તત્વ નથી એમ કહે છે ત્યારે તે વચન સ્વપક્ષની અપેક્ષાએ સાદ. અને પરપક્ષની અપેક્ષાએ બાધક છે. આમ એક જ વચન સાધક અને બાધક હોવા છતાં વિરોધ નથી, એટલે કે--તમે પણ અપેક્ષાભેર સ્વીકારે જ છે.
(५०) तत्तत्कालादिसामग्रीसव्यपेक्षक्रियावशादिति कालस्वभावनियतिपुरुषाकाराः कालादय उच्यन्ते । अथवा क्षेत्रकालभावलक्षणा सामग्री । भावः स्निग्धरूक्षत्वादिः'। चलनक्रियासंयोगो[ऽत्र] चलनक्रियापूर्वकः । यथाऽगुल्योः ।
पर्यायरूपतया मेदस्य द्रव्यरूपतया चाऽभेदस्य भणनादिति । पूर्व हि तेषां परमाणूनां संयोगाख्यः पर्यायो नासोत् । पश्चात् तत्तत्कालादिसामग्रीसव्यपेक्षक्रियावशात् प्रादुर्भूतः । स च तेभ्यो न सर्वथाऽभिन्नः। यद्धि यस्माद् अभिन्नं तत् तस्य स्वभावभूतं स्यात् । स्वभावश्च न कदाचिदपि व्यपैति । यथा परमाणोः परमाणुत्वम् । व्यपयन्ति च पर्यायाः । अन्यच्च द्रव्यं त्रिकालावस्थायि, पर्यायाश्च वार्त्तमानिकाः। द्रव्यमाधारः, पर्यायाश्चाधेयाः। तस्मान्न सर्वथाऽभिन्नः ।
न च सर्वथा भिन्नः, कथञ्चिदभिन्नोऽपि । यावता त एव परमाणवः संयोगरूपतया परिणमन्ति, न । पुनः संयोगः पृथग्भूतोऽतोऽभेदोऽपि । कक्षीकृत एवेति । एतावता त्वयाऽपि कथञ्चित्पक्षोऽङ्गीकृतः ।
(टि.) यस्मादुभयेति अणुभ्यः स्थूलेभ्यो वा समुत्पद्यते इति द्वयम् । न इति अस्माकम् । अणुभ्यः स्थूलोत्पत्तिः, स्थूलेभ्यश्च स्थूलोत्पत्तिः । आत्माकाशादिः पदार्थः अपोद्गलिकोऽपि प्रथमानः प्रतीयते। यत्र पुनरित्यादि । तत्कालादीति। * पूर्व हि तेषां परमाणूनां संयोगाख्यः पर्यायो नासीत् , पश्चात्तत्कालादिसामग्रीसव्यपेक्षक्रियावशात् प्रादुर्भूतः । स च तेभ्यो न सर्वथा भिन्नः, स्वभावभूतत्वात् । अन्यच्च द्रव्यं त्रिकालावस्थायि, पर्यायाश्च वातमानिकाः । द्रव्यमाधारः, पर्यायाश्चाधेयास्तस्मान सर्वथाऽभिन्नः, किन्तु भिन्नः । न च सर्वथा भिन्नः, कथंचिदभिन्नोपि, यावता त एव परमाणवः संयोगरूपतया परिणमन्ति । न पुनः संयोगः पृथग्भृतः । * इयमिति उत्पत्तिः ।
विरोधेति विरोधेन निरोधः । पर्यायेति क्रमभाविधर्मरूपतया । न प्राच्ये प्रसङ्ग इति पडंशतालक्षण दूषणम् । तथेति षडंशताप्रकारतया ।
याऽपि परमाणोः पदंशताऽऽपत्तिरुक्ता, साऽप्ययुक्ता, यतोऽत्रांशशब्दस्य संबन्धनिबन्धनशक्तिस्वरूपोऽर्थो विवक्ष्येत, अवयवलक्षणो वा ! न प्राच्ये प्रसङ्गः संगतः, तथाऽस्माभिस्तदभ्युपगमात् । द्वितीये तु, नास्त्यविनाभावः, तत्तच्छक्तिमात्रेणैव तत्तत्परमाणुसंबन्धस्य प्रतिपेधुमशक्यत्वात् ।
વળી, તમોએ પરમાણુની બાબતમાં તે છ અંદાવાળો થઈ જશે એવી જે આપત્તિ આપી છે તે પણ યુક્તિયુક્ત નથી, કારણ કે--તમારે અંશ શબ્દને અર્થ સંબંધનું કારણ-શક્તિ એ વિવક્ષિત છે કે અવયવરૂપ વિવક્ષિત છે? પ્રાય પક્ષમાં પડેશતાની આપત્તિ સંગત નથી, કારણ કે અમે એ પરમાણુના શક્તિરૂપ અંશે સ્વીકારેલ છે. બીજા પક્ષમાં તે અવિનાભાવ નથી, કારણ કેવિભિન્ન શક્તિથી વિભિન્ન પરમાણુઓ સાથે એક પરમાણુને સમ્બન્ધ થતું હોય તે તે નિવારી શકાય તેમ નથી. ભાવાર્થ એ છે કે એક પરમાણુને અનેક પર
१ क्षादिः क। २ सम्बन्धनिबन्धनं शमु । * एतच्चिहान्तर्गतः पाठो मुद्रिते एव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org