SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ કેટલાક પ્રાચીન સંસ્કૃત અભિલેખ सौदर्यमाये तरनिग्रहश्च अविस्मयो धैर्य्यमुदीर्णता च। १२. इत्येवमेते[s]तिशयेन यस्मि नविप्रवासेन गुणा वसन्ति ।[1] [१८] न विद्यतेऽसौ सकले[s]पि लोके यत्रोपमा तस्य गुणैः क्रियेत । स एव कात्स्न्येन गुणान्वितानां बभूव न(नृ)णामुपमानभूतः ।[1] [१९] इत्येवमेतानधिकानतो[s]न्यान्गुणान्परीक्ष्य स्वयमेव पित्रा । यः संनियुक्तो नगरस्य रक्षा विशिष्य पूर्वान्प्रचकार सम्यक् ।[१] [२०] १३. आश्रित्य वि(वी)र्य [स्वभु]जद्वयस्य स्वस्यैव नान्यस्य नरस्य दर्प । नोद्वेजयामास च कंचिदेवमस्मिन्पुरे चैव शशास दुष्टा:(ष्टान्) ।[1] [२१] विस्नभमल्पेन शशाम यो[s]स्मिन् कालेन लोकेषु सनागरेषु। यो लालयामास च पौरवर्गान् [स्वस्येव] पुत्रान्सुपरीक्ष्य दोषान् ।[1] [२२] संरंजयां च प्रकृतीर्बभूव पूर्वास्मिताभाषणमानदानैः । १४. नियन्त्रणान्योन्यगृहप्रवेशै [ :] संवर्धितप्रीतिगृहोपचारै : ।[1] [२३] ब्रह्मण्यभावेन परेण युक्तः [शुक्ल: शुचिर्दानपरो यथावत् । प्राप्यान्स काले विषयान्सिषेवे धर्मार्थयोश्चा[प्य]विरोधनेन ।[1] [२४] [यो..................पर्णदत्ता]'त्स न्यायवानत्र किमस्ति चित्र । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005401
Book TitleBharatiya Abhilekh Vidya
Original Sutra AuthorN/A
AuthorHariprasad G Shastri
PublisherUniversity Granth Nirman Board
Publication Year1973
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy